________________
: ७९ :
सर्वे तत्क्षणसम्मूढा, जाता विह्वलचेतसः । तदत किं च कर्तव्यं ? विस्मृतं विरहाकुलैः ॥७१९॥ अहो निष्ठुग! हे काल !. विचारितापराङ्मुख ! धर्मोद्धारकमृधन्यः, त्वया मुक्तः कथं नहि ! ॥७२०॥ इत्युपालम्भतः सर्वे, परिरुदन्ति सर्वतः । कृच्छाञ्चित्तं समाधाय, स्वस्था जाता उपासकाः ॥७२१॥ अन्त्यक्रिया तदा शिष्यैः, विहिता बाष्पलोचनैः । निर्मापिते विमाने हि. श्रावकैः स्थापितं वपुः ॥७२२॥ गुरो: श्मशानयात्रायां, लक्षाधिनस्तदा । योजितैस्तद्गुणाकृष्टः गुरोभक्तिश्च दर्शिता ॥७२३॥ बाणगङ्गाब्धितीरे च. स्थाने पवित्रभूमिके । घनचन्दनकाष्ठानां, चितान्तर्वलितं वपुः ॥२४॥ तदुःखदसमाचाराः, तरङ्गध्वनिनागताः । गुरुनिर्वाणदुःखेन, मुमूच्र्छ. साश्वः क्षणम् ॥७२५॥ वजाहतवदाक्रान्तैः, विरहानलदुःखतः । साधुभिः श्रावकेश्चैव, विहितं देववन्दनम् ॥७२६॥ आकोलाजैनसडेन, सरिस्मृत्यर्थमुत्सवः । शान्तिस्नानादिसंयुक्तः, कृतः शासनदीपकः ॥७२७॥ तदा द्रव्यव्ययेनैव. कृतं जीवादि-मोचनम् । सुतपो विहितं लोकैः, गुरुस्मृत्यं च साधुभिः ॥७२८॥