________________
: ७८ :
श्रावण शुक्लपञ्चम्यां विभावय विशेषतः । स्वास्थ्यविपर्ययो जातो, गुरुवपुषि नश्वरे समाधिध्यानलोनास्ते, त्यक्ताहारजलादयः । नमस्कार महामंत्रे, मग्नाः स्वात्महितावहे अन्तर्मुखा विरक्तास्ते, बहिर्भावपराङ्मुखाः । निधाय हृदि सद्ध्यानं, सदा तवावगाहकाः ॥७११ ॥ बाह्ये स्थूले स्वदेहेऽपि, पीडिता रोगशत्रुभिः । नैव ग्लानानना जाता, ते पूज्याः शान्तवृत्तयः ॥७१२॥ गुरुदेहेऽसुखं दृष्ट्वा तदा रुदन्ति सेवकाः । न ग्लाना गुरवो दृष्टाः तच्चान्तर्ध्यानतत्पराः दर्शनं वन्दनं तेषां परोलक्षा उपासका: । प्राप्य सहनसामर्थ्य, समीक्ष्य तेऽतिविस्मिताः ॥७१४ || अर्ह नामकशब्देन, शब्दाद्वैतं तदाऽभवत् । साधवः सर्वभक्ताश्र, निमग्नाः शोकसागरे आजीवनव्रते शक्ताः सर्वशिष्यप्रणोदकाः । संयमाराधने नित्यं निष्ठा ब्रह्मणि योगिनः ॥७१६ ॥ अर्हत् सिद्धसाधूनां, जिनोक्तशासनस्य च । चित्ते शरणमादाय समाधिस्थितमानसाः
॥७०९ ॥
॥७१०॥
॥७१३॥
॥७१५॥
1108011
तत्यजुश्च निजान् प्राणान्, नश्वरान् क्षणमात्रतः । गुरवो ज्ञानसन्निष्ठाः पश्यत्सु भक्तराशिषु
॥७१८ ॥