________________
: ७७ :
व्याख्याक्षणे सुधोषेण, मधुरेण स्वरेण च । अनन्या मर्त्य विश्वेऽस्मिन्, व्याख्यानगुरवो मताः ॥६९९।। वादस्थल्यां कुवादीश-गर्वाद्रिवज्रसनिभाः । वादीन्द्रा इति विख्याता, विश्वविश्वेऽतितार्किकाः ॥७००॥ संस्कृतादिकभाषासु, नानाग्रन्थपकाशनात् । अनेकग्रन्थनिर्माणात् , ग्रन्थस्रष्टार एव ये ॥७०१॥ तेषां च लब्धिसूरीणां, देहे वृद्धखकारणात् । प्रादुर्भूता घना रोगा, मूर्तयः कृतकर्मणः ॥७०२॥ सरिवाचकपन्यासा,-दिसाधुभिः सुसेविताः ।। लालबागे चतुर्मास्यै, स्थिताः सरिपुरन्दगः ॥७०३॥ धर्मधुरन्धरा धर्म-देशका धर्मपालकाः । पाणान्ते जिनधर्मस्य. सत्य-तच-प्रकाशका: ॥७०४॥ यः कलौ सार्वसिद्धान्तो,-दित-तत्त्व-प्रवेदिभिः । तोषिताः प्रश्नकर्तारः, यथार्थोत्तरदानतः ॥७०५॥ कथं गुणा मया वर्ष्या, गुरूणां धर्मदेहिनाम् । विश्वख्यातस्य सूर्यस्य, कि तेजो वर्ण्यने बुधः ? ॥७०६॥ तेषां वर्मणि सुस्वास्थ्य, विपरीतं गतं भृशम् । उपाया भक्तसल्लोकः, भिषभिः कारिता अपि ॥७०७॥ विहितकर्मवेचिच्या-न स्वास्थ्यं पुनरागतम् । । शनैः शनैरशक्तवं, गुरोदेहे विजम्भितम् ॥७८॥