________________
वदन्ति स्मेति नृत्यन्तो, हर्षोत्कर्षसमन्त्रिताः । परस्परं प्रमोदेन, मावोल्लासेन भूषिताः ॥६८२॥
युग्मम् ॥ गगनस्पर्शिसञ्चैत्ये, प्रणिपत्य जिनेश्वरम् ।। स्तुखा नखा सुमावेन, चोपोपाश्रयमागमम् ॥६८३॥ ध्वजतोरणभूषाभिः, जैनहर्षातिवेगतः । विविधैः स्वस्तिकैः श्रेष्ठैः, उपाश्रयेप्यलकृते ॥३८४॥ व्याख्यापीठं समाश्रित्य, मयका धर्मवेदिना । . . मङ्गलाचरणं प्रोक्तं, नमस्कारपुरस्सरम ॥६८५॥
युग्मम् ॥ अत्रत्याः श्रावकाः सन्ति, नेके वाणिज्यकारकाः । चदान्या धर्मतत्त्वज्ञा, धनान्या भिन्नदेशिनः ॥६८६॥ सौराष्ट्रगूर्जरोत्पन्नाः, कच्छदेशनिवासिनः । मरुमालववास्तव्या, जैनाचारेषु तत्पराः ॥६८७॥ पवचनरसे लुब्धा, धर्मतत्वसुवेदिनः । तार्किकाः प्रश्नकर्तासे, वर्तन्ते श्रावका वराः ॥६८८॥
त्रिभिर्विशेषकम् । मया प्रमोदयुक्तेन, प्रत्यहं पर्षदि प्रगे। श्रोतृणां पुरतः सम्यक्, सिद्धांतः श्रावितः खलु ॥६८९।।