________________
: ७४ :
ध्वजसहितदण्डस्या,-रोपणं समजायत । जयनादैश्च सम्पूर्ण, मङ्गलैविविधैस्तथा ॥६७२॥ मुनिभूमिवियच्चक्षुः.-सख्ये वैक्रमवत्सरे । राघशुक्लत्रयोदश्यां, प्रतिष्ठा मयका कृता ॥६७३॥ सुवदान्यैर्मणीलालैः, बद्रव्यव्ययेन च ।। जेमनानि प्रशस्यानि, कृतानि भक्तितः किल ॥६७४॥ आगन्तूनां च सर्वेषां, सधर्मणां सुभक्तितः । शुश्रूषा च कृता शस्या, विपुलैः साधनैरपि ॥६७५॥ मासकल्पस्तु मे जातो, ग्रामेऽस्मिन्नुपदेशतः । श्रोतरम्य-सभायां तु. धर्माख्यानेन चान्वहम् ॥६७६।। अतो विहृत्य सानन्दः. वै समाजग्मिवानहम् । बालापुरे वरे ग्रामे, सुसत्कारेण सत्कृतः ॥६७७॥ आकोलावासिनो भक्ता, आयाता वन्दनाय च । विज्ञप्त्यर्थ चतुर्मास्या, ममात्र भावपूरिताः ॥६७८॥ बाळापुरे वरे क्षेत्रे, ददद् धर्म जिनेशितुः । कियदिनान्युषिखाई, ततो विहृतवान् मुदा ॥६७९॥ आकोलावासिनो जैना, मना आनन्दसागरे । स्वागताय मुदाऽस्माकं, वाद्यैः सह समागताः ॥६८०॥ जयनादैः कृतैस्तत्र, सर्व गर्जत्कृतं जगत् । अहो भाग्यनियोगेन, लभ्यन्ते गुरुसत्तमाः ॥६८१॥
Halil