________________
: ७१ :
स्वर्गस्थलालचन्द्रस्य, भार्यायाः सुमनोरथम् । .:. श्रुत्वा मुमुदिरे सभ्या, अहं पुनर्विशेषतः ॥६४४॥ मयोक्तं सर्वसभ्येभ्यः श्रूयतां मम भावना । यदि तीर्थे सुरम्येऽस्मिन् , भवेद् भव्यो जिनालयः ॥६४५।। तत्तु श्रेयस्करं चास्ति, तीर्थख्यात्यभिवृद्धये । किन्तु विशेषद्धयर्थं, तत्र चैत्ये यदि पुनः ॥६४६॥ चतुर्विंशतिबिम्बानां, जिनानां स्थापना भवेत् । तदा भव्यस्य तीर्थस्य, महत्त्वं व्यापकं भवेत् ॥६४७॥
युग्मम् ॥ यात्रिकाणां ततो भावि, महदाकर्षणं खलु । पूजास्नात्रादिकृत्याय, स्थितिश्चात्राधिका भवेत् ॥६४८॥ नव्येनतेन चैत्येन, तीर्थेऽस्मिन् जिनसमनि । अन्तरिक्षस्य पार्श्वस्य, वस्यति महिमाऽधिक: ॥६४९॥ स्वतो निमर्गतो विश्वे, वर्धयिष्यति भावनाम् । भन्यानां चैत्यकार्य हि, कर्तव्यं च ततो द्रुतम ॥६५०॥ ममोक्तं सुहितं श्रुत्वा, सभ्या विचारयन्ति तत् । चैत्यकृते सुतीर्थेऽस्मिन् , शिष्टकर्म विचक्षणाः ॥६५१॥ स्वर्गस्थलालचन्द्रस्य, भार्या श्रावधर्मिणी । श्रीबालापुरवास्तव्या,
धन्या पुण्या न कैः स्तुता ? ॥६५२॥