________________
: 00:
॥६३७॥
अन्तरिक्षस्य पार्श्वस्य कुत्वा सर्वेऽपि दर्शनम् । पावित्र्यं मनसो नित्यं प्राप्य स्वस्वगृहं गताः ॥ ६३४|| स्थिताच समितेः सभ्या - स्तथा सर्वेऽपि साधवः । चिन्तयन्ति स्म चित्ते तु तीर्थोद्धारः कथं भवेत् ? ।। ६३५ ॥ सर्वैर्विचारितं स्वान्ते, मया पुनर्विशेषतः । यदि जिनस्य चैत्यं स्यात्, स्वतन्त्रं चारु तर्हि तु ॥ ६३६ ।। सदैतत्तीर्थसत्ख्यातिः विश्वेऽस्मिन् महती भवेत् । अन्तरिक्षस्य पार्श्वस्य वर्धेतातिशयो महान् तद्धेतोर्निर्णयोऽकारि, नव्यचैत्यंस्य निर्मितेः । कर्तव्यं कुत्र की क्षं, चिन्तितं सभ्य सज्जनैः ॥६३८॥ मेरितेन मया भक्तया, तीर्थस्य भावनाईया | श्रावकेभ्यो वदान्येभ्यः सूचितं तीर्थवृद्धये अत्र क्रियां समालोक्य, चैकया हर्षसज्जुषा । समरताभिधश्राद्धया प्रोक्तोऽहं तीर्थभक्तितः किमपि शोभनं कार्य, कर्तुमिच्छा ममास्ति वै । भूयो भूयो ममाग्रे चे-ति विज्ञप्तं तया भृशम् ॥६४१॥ तस्याः पुरो मया प्रोक्तं, तीर्थेऽस्मिन् हि विवापय । भूरिद्रव्यव्ययेनैव, चैत्यमेकं मनोहरम्
॥६३९॥
॥६४० ॥
॥६४२॥
तथा ममोदितं वाक्यं, स्त्रीकृतं च हितावहम् । तैः सभ्यै हर्षितै भव्यैः कृत्यमनुमतं मुदा
॥६४३॥