________________
अष्टादशाभिषेकाणां, विधिः शास्त्रानुसारतः । मत्सनिधि समाश्रित्य, विहितो मंगलालयः ॥२४॥
युग्मम् आचार्यमन्त्रतः स्पृष्टा, मन्त्रोच्चारेण भासुराः । पूर्णाः कुम्भाभिषेका वै, अष्टादशमितास्तदा ॥२५॥ कृताभिषेकतो बिम्ब, तेजोभी राजनेतराम् ।। जहृषुर्दर्शकाः सर्वे, दृष्ट्वा बिम्बमनुत्तरम् ॥६२६।। पूजितो विविधैव्यैः, श्रावकैः श्रद्धयाऽन्वितैः ।। स्तुतिभिः संस्तुतस्तत्र, पार्श्वनाथो जिनेश्वरः ॥६२७॥ अभिषेकक्रियां दृष्ट्वा, सभ्याः सर्वेऽपि हर्षिताः । चिन्तितं चिरकालेन, लेमिरे फलमीप्सितम् ॥२८॥ अद्य तु दिनतारुण्ये, शान्तिस्नात्रस्य सकिया । कृता शुद्धेन मन्त्रेण, शान्तये तक्रियाक्षमैः ॥६२९॥ अष्टादशाभिषेकीयो, जातः पूर्णो महोत्सवः । निर्विघ्नः सहन्शान्त्यर्थं, पाश्चंदेवप्रभावतः ॥६३०॥ महोत्सवनिमित्तेन, देवद्रव्ये जिनालये । धनवृद्धिस्तु सञ्जाता, सम्यग् दानवाहतः ॥६ ॥ अस्माकं च सुनिश्राया,-मुत्सवः पूर्णरूपतः । साङ्गोपाङ्गं सुतीर्थेऽस्मिन् , चिरस्मृतिकरोऽजनि ॥६३२॥ उत्सवदर्शकाः सर्वे, वदन्तिस्म परस्परम् । एतादृशं च तीर्थेऽस्मिन्, न दृष्टं दृश्यमद्भुतम् ॥६१३॥
॥