________________
भोगायतनं सा लटभश्रीणां सकलकलानां निधिरपरः । परमार्थ- परीक्षाबुद्धिकषपट्टः सकलस्तेजोऽवधिरतरः ||२३|| तरणीश्रुतसिन्धोः शुभफलफलदः कन्दः कविताकल्पतरोः । तरसामिह मूलं यशसामादिर्जय जय भारत ! भुवनगुरोः ||२४|| युग्मम् । कुसुमामोदा विमो (नो) दप्रमोदमद मेदुराऽदुराशाया । दूरं दुरन्तदुरितं देवी दावयतु सा त्वरितम् ||२५|| (त्वरितागति (त?) सङ्गतरङ्ग तरङ्गित हरिणाक्षी । महितपदात्तपदारुणदीधिति पवनपथध्वजपुण्यप्रतापा ||२६|| देवि ! सदा विशदांशुमयि ! त्वं ललितकवित्वं श्रुतममलम् । ममदेहितमां हितमार्गमयत्न रत्नवधर्नकविरोपित संस्तवनकुसुमा ॥२७॥
युग्मम् ।
कमलदलदीर्धनयना श्रुति- दोलालोलकुण्डलकपोला । शुक्तिज सङ्कुलचोला शुभा सलोलोक्ति कल्लोला ||२८|| कल्लोल-विलोलितजलधि कफोज्ज्चलाकीर्तिकलाढया श्रुतजननी । जननीवन्निरुपधिवत्सल पिच्छलचिता कुमतद्विक (र) रजनी ॥२९॥ रजनीकर- दिनकररुचिरिव रचितजडितमतमोहरणा । हरिणाश्रितचरणा शरणं भव मे त्वं भयभञ्जनधृतकरुणा ||३०|| विशेषकम् ।
करुणामलकोमलमनस्क - निर्मितपरिचरणा । चरणाश्रितजनदत्त विविध विद्यासंवरणा ||३१||
वरुणायातसमस्तरु (ऋ) द्विरुल (ल्ल) सदुपकरणा । करणाङ्कुश कुशलाप्तिविहितदुष्कृतभरहरणा ||३२||
• हरिणाङ्क सुशिरसत्पाद विशदवचनविजृम्भितममलतनु ! । तनुसे त्वमद्य सौहार्द्दवति ! मातरात्तगुणगणमतनु ||३३|| विशेषकम् |
॥ इतिभारतीस्तोत्रं सम्पूर्णम् ॥
Ha