________________
x
૧૬ || श्री जिनप्रभसूरि-विरचितमन्त्रगर्भितं शारदास्तवनम् || ५। है. शा. म. प्रत न. - 3१११, ८२५3, ८२53
रथोता. तंभामुलि म....... ॐ नमस्त्रिदशवन्दितक्रमे ! सर्वविद्वज्जनपद्मभृङ्गिके। , बुद्धिमान्द्य कदली 'दलक्रियाशस्त्रि! तुभ्यमधि देवते गिराम् ||१|| कुर्वते नभसि शोणरोचिषो भारति! क्रम नखांशवस्तव । नम्रनाकिमुकुटांशु मिश्रिता ऐन्द्रकार्मुकपरम्परामिव ||२|| छ दत्तहीन्दु-कमलश्रियो मुखं, 2 wलोकि तव देवि सादरम् । ते विविक्तकवितानिकेतनं, के न भारति ! भवन्ति भूतले ||३|| श्रीन्द्रमुख्य-विबुधार्चित 'क्रमे ! ये श्रयन्ति भवतीं तरीमिव । . ते जगज्जननि जाड्यवारिधिं निस्तरन्ति तरसा रसास्पृशाः ॥४|| द्रव्यभावतिमिरापनोदिनी तावकीन वदनेन्दुचन्द्रिकाम् | यस्य लोचनचकोरकद्वयी पीयते भुवि स एष पुण्यभाक् ||५|| बिभ्रदङ्गकमिदं त्वदर्पितस्नेहमन्थरदृशा तरङ्गितम् । वर्णमात्रवदना क्षमोऽप्यहं स्वं कृतार्थमवयामि निश्चितम् ||६|| मौक्तिकाक्ष-वलयाब्जकच्छपी पुस्तकाङ्कितकरोपशोभिते। पद्मवासिनि ! हिमोज्ज्वलाङ्गि ! वाग्वादिनि ! प्रभव में भवच्छिदे ||७|| विश्व-विश्वभुवनैक दीपिके ! नेमुषी मुषितमोहविप्लवे।। - भक्तिनिर्भरकवीन्द्रवन्दिते ! तुभ्यमस्तु गिरिदेवते नमः ||ll +उदार-सारस्वतमन्त्रगर्भितं जिनप्रभाचार्यकृतं पठन्ति ये। वाग्देवतायाः स्फुटमेतदष्टकं भवन्ति तेषां मधुरोज्ज्वला गिरः ||९||
उपजाति. इति स्तवनं सम्पूर्णम् ।
१ दली | २ टास्त्र । ३ क्रमां । ४ स्पृशः । ५ नो । ६ नेमुषां । ७ स्फुरन्ति । *