________________
|| श्री मलयकीर्तिमुनीश्वरविरचितं - श्री शारदाष्टकम् || 1. मी यशो.. वि. स. म. प्रत नं. ५१८3 तथा सुरत ने.वि. ७.
शा. मं. प्रत नं. 3१८२ - सरस शांति सुधारस - द्रुतविलित छ जनन मृत्यु-जराक्षयकारणं सकलदुर्नय-जाड्यनिवारणं। विगतपारभवाम्बुधितारणं समयसारमहं परिपूजये ||१|| (इत्युच्चार्य पुस्तको परि पुष्पांजलिं क्षिपेत् श्रुतिपूजनप्रतिज्ञा ।
जलधिनंदन-चंदनचन्द्रमा सदृशमूर्तिरियं परमेश्वरी। निखिलजाड्यजटोन कुंठारिका दिशतुमेऽभिमतानि सरस्वती ||२| विशदपक्ष-विहङ्गमगामिनी विशदपक्ष-मृगांकमहोज्वला। - विशदपक्ष-विनेयजनार्चिता दिशतु मेऽभिमतानि सरस्वती ||३|| वरददक्षिणबाहुधृताक्षका विशदवामकरार्पितपुस्तिका। उभयपाणिपयोजधृताम्बुजा दिशतु मेऽभिमतानि सरस्वती ||४|| मुकुटरत्नमरीचिभिरूचंगै र्वदति या परमां गतिमात्मनि ।। भवसमुद्रतरीस्तुनृणां सदा दिशतु मेऽभिमतानि सरस्वती ||५|| परमहंस-हिमाचल निर्गता सकलपातक-पङ्कविवर्जिता। अमृतबोधपयःपरिपूरिता दिशतु मेऽभिमतानि सरस्वती ||६|| परमहंसनिवास-समुज्वला कमलयाकृति पासमनोत्तमाः | वहति या वदनाम्बुज' हंसदा दिशतु मेऽभिमतानि सरस्वती ||७||
सकलवाङ्मयमूर्तिधरापरा सकलसत्वहितैकपरायणा। व सकल-नारदतुंबरुसेविता दिशतु मेऽभिमतानि सरस्वती Illl
मलयचन्दन चंद्ररजःकण प्रकरशुभ्रदुकूलपटांवृता। विशदहंसकहार-विभूषिता दिशतु मेऽभिमतानि सरस्वती ||९|| मलयकीर्तिकृतामपि संस्तुतिं पठति यः सततं मतिमान्नरः । विजयकीर्तिगुरोः कृतिमादरात् सुमतिकल्पलताफलमश्नुते ||१०|| ॐ हीं श्रीं क्लीं ऐं नमः सरस्वती भगवती बुद्धिवर्द्धिनी स्वाहा ।
इति मूलमंत्र । इति श्री शारदाष्टकस्तोत्रसम्पूर्णम् ॥
१ वदनाम्बुरुहं । २ विभूष्यता | ३. १७८१ महा.सु.२ ना हिवसे रायपुर नगरे । સ્તોત્ર બનાવેલું છે.