________________
...
र रुच्यारविन्द भ्रमदं करोति वेलं यदि योऽर्चति तेऽधिं युग्मम् ।
रुच्यार विन्द अमदं करोति स स्वस्य गोष्ठी विदुषां प्रविश्य ||८|| पाद प्रसादात्तव रूपसम्पद लेखाभिरामोदित मानवेशः । भवेन्नरः सूक्तिभिरम्ब चित्रोल्लेखाभिरामो दितमानवेशः ।।९|| सितां शुकान्ते नयनाभिरामां मूर्तिं समाराध्य भवेन्मनुष्यः । । सितांशु कान्ते नयनाऽभिरामाऽन्धकार सूर्यः क्षितिपाऽवतंसः ||१०||
येन स्थितं त्वामनु सर्वतीर्थ्यः स भाजितामानतमस्तकेन। दुर्वादिनां निर्दलितं नरेन्द्र - सभाजिता मानत मस्तकेन ||११||
सर्वज्ञवक्त्रवरताम-रसाङ्कलीना 5 माली घ्नती प्रणयमन्थरया दृशैव । CM सर्वज्ञवक्त्रवरताम-रसाङ्कलीना
प्रीणातु विश्रुतयशाः श्रुतदेवता नः ||१२|| वसंत. क्लप्तस्तुतिर्निबिडभक्तिजडत्वपृक्तै, गुम्फै गिरामिति गिरामधि देवता सा । बालोऽनुकम्प्य इति रोपयतु प्रसाद, 'स्मेरां दृशं मयि जिनप्रभसूरिवा ||१३|| वसंततिलका
• इति श्रीजिनप्रभसूरिविरचित-शारदास्तोत्रं सम्पूर्णम् ॥