________________
अमित-नमितकृष्टे तद्धियां सन्निकृष्टे, श्रुतसूरि-शुभदृष्टे सदृशानां सुवृष्टे | जगदुपकृति सृष्टे सज्जनानाममीष्टे, तव सकलपरीष्टे को गुणान् वक्तुमीष्टे ||८|| भासिनी. । स्तुतेऽल्पमष्टकेन नष्टकष्ट-केन चष्टके, सतां गुणार्द्धि गर्धनः सदैव धर्मवर्धनः । सखे सबद्धि-वृद्धि-सिद्धि रीप्स्यते यदासती, नमस्यता मुखस्य साववश्यमों सरस्वती ||९|| पंथयाभ२. ( इति श्री शारदाष्टकं समाप्तम् ||
१२ | श्री सहस्त्रावधानीमुनिसुंदरसूरि-शारदास्तवाष्टकम्
असत्यो भाउथी प्रभु ५२म...... छ कला काचित् कान्ता न विषयमिता वाङ्मनसयोः, समुन्मीलत्सान्द्रानुपरम-चिदानन्दविभवा । निरूपायोगीन्द्रैः सुविशदघिया यात्यवहितै,A रियं रूपं यस्याः श्रतजलधि देवी जयति सा ||१|| शार्दूल. चञ्चत् कुण्डलिनी विरूद्धपवन, प्रोद्दोपितप्रस्फुरत्,
प्रत्यग् ज्योतिरिताशुभासितमहा हृत् पद्मकोशोदरे। र शुद्धध्यानपरम्परा परिचिता रंरम्यते योगिना, है या हंसीव मयि प्रसत्ति मधुरा, भूयादियं भारती ||शा
या पूज्या जगतां गुरोरपि गुरु: सर्वार्थपावित्र्यसूः, शास्त्रादौ कविभिः समीहितकरी, संस्मृत्य या लिख्यते। सत्तां वाङमयवारिधै श्च कुरुते ऽनन्तस्य या व्यापिनी, वाग्देवी विदधातु सा मम गिरां प्रागलभ्यमत्यद्भुतम् ||३|| नाभिकन्दसमुद्गता लयवती या ब्रह्मरन्ध्रान्तरे, शक्ति:कुण्डलिनीति नाम विदता काऽपि स्तृता योगिभिः । प्रोन्मालन्निरुपाधि बन्धुरपदाऽनन्दामृतस्त्राविणी, सूते काव्यफलौत्करान् कविवरै नीता स्मृते र्गोचरम् ||४|| या नम्या त्रिदशेश्वरै रपि नुता ब्रह्मेश-नारायणै, भक्ते र्गोचरचारिणी सुरगुरोः सर्वार्थसाक्षात्करी। .