________________
स्कार श्री श्रीबप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्पः । २३ -धपफलनैवेद्यजल प्रदीपाक्षतादिभिः साधकः पूजयेत । स च स्नानकं च स्नानं वा कृत्वा शुचिवेषः समुपविशेत् । ततश्च 'ॐ विमलाय विमलचिताय पां वां क्षां हृीं स्वाहा अनेन मन्त्रेण वार ३ शिरः प्रदेशात् चरणौ यावत् हस्ताभ्याँ मन्त्रस्नानं कुर्यात् चन्द्रकिरणैर्दुग्धकपूरैर्वा आत्मानमभिषिच्यमानं चिन्तयेत् ।।
ॐ भूरिसि' ! भूतधात्री भूमिशुद्धिं कुरु कुरु हुं फट् स्वाहा' अनेन मन्त्रेण वार ३ भूमिशुद्धिं कुर्यात । तत:- "ॐ ४ एहि एहि वार ४" अनेन मन्त्रेण आह्वान कुर्यात् । द्रव्यतो भावतश्च देव्याह्वाननं स्थापना च कार्या | ततः क्षि पद्मासने, प नाभिप्रदेशे, ॐ हृदये, स्वा नासिकायाम्, हा शिरःप्रदेशे ऐभिर्मन्त्रपदैरारोहक्रमेण ततश्च हा ५ ललाटे, स्वा ८ नासिकायाम्, ॐ ८ हृदये, प १३ नाभौ, क्षि ५ पद्मासने एभिरेव मन्त्राक्षरैरात्मरक्षां कुर्यात्, चतुर्दिशं नखच्छोटिका च शिखाबन्धं विदध्यात् । ततो गुरूपदिष्टध्यानपूर्वकं मूलमन्त्रं जपेत् । मूलमन्त्रस्य सहस्त्र १२ करजापे ततः पुष्पजापे सहस्त्र १२ दशांशेन द्वादशशतैः एक दिवसमध्ये होमः कायःकथित जापश्च अष्टदिनानां मध्ये कार्यः उत्तरक्रियां करजापे सहस्त्र १२ | पुष्पजापसत्कानि पुष्पाणि छायाशुष्काणि सञ्चूर्ण्य गुग्गुलेन सह चणकप्रमाणा गुटिकाः कृत्वा दुग्धघृतखण्डमध्यादाकृष्य ध्यानपूर्वं च होमयेत् खदिराङ्गारैः पलाशसमिद्भिश्च वैश्वानरः प्रथमं ज्वलन् कार्य: । पूजानन्तरम् - ॐ यः विसर्जनमन्त्रः लक्षजापे दिननियमो नास्ति, तत्रापि पूर्वविधिना दशांशेन होमः कार्यः, करजापे लक्ष १, पुष्पज़ापे लक्ष १, होमसहस्त्र १० उत्तरक्रियायां करजाप लक्ष १ सिद्धि यावत् साधकः साधयेत् । ब्रह्मचर्य-भूमिशयनं वृक्षशयनं वा | ऐकवारभोजनं आम्ललवणवर्ज च' कुर्यात् । स्वप्नेऽपि वीर्यच्युतौ मूलतो गच्छति, अतोऽनवरतं एलचीप्रभृतिवीर्यापहारकं भक्षयेत् । - होमकुण्डं अङ्गुल १६, विस्तारे अङ्गुल १२ अ ॐ स्वाहा कुण्डस्य स्थापना ! आ ॐ स्वाहा मृत्तिकासंस्कारः। इ ॐ स्वाहा जलसंस्कारः । ई ॐ स्वाहा गोमयसंस्कारः I उ ॐ स्वाहा उभयसंयोगसंस्कारः । ऊ ॐ लिम्पनसंस्कारः । ऋ ॐ स्वाहा दहनसंस्कारः । ऋ ॐ शोषणसंस्कारः ।। ल ॐ स्वाहा अमृतलावणसंस्कारः। लु ॐ स्वाहामन्त्र पूतसंस्कारः। एॐ इन्द्रासनाय नमः ।
ऐं ॐ स्वाहा अनलदेवतासनाय नमः। ओ ॐ यमाय स्वाहा ।
औ ॐ नैर्ऋताय स्वाहा । .. अं ॐ वरुणाय स्वाहा ।
अं ॐ वायवे स्वाहा ।। अं अः ॐ धनदाय स्वाहा । अं अः ॐ ईशानाय स्वाहा । १ भूरसि २ शुद्धिः ३ दत्ता ४ सिद्धि