________________
श्री श्रीबप्पभट्टिसूरिकृत- सरस्वतीमन्त्रकल्पः
अथ मन्त्रक्रमो लिख्यते ॐ सरस्वत्यै नमः । अर्चनमन्त्रः T
ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः ॐ विमले ! विमलजले सर्वतीर्थजले पांव व अशुचिः शुचीर्भवामि स्वाहा । आत्मशुद्धिमन्त्रः ।
ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः | ॐ महापद्मयशसे ह्रीं योगपीठाय नमः | ॐ वद वद वाग्वादिनी हूँ शिखायै वषट् । ॐ वद वद वाग्वादिनी नेत्रद्वयाय वषट् । वद वद वाग्वादिनी कवचाय हुं ।
ॐ वद वद वाग्वादिनी ! अस्त्राय फट् ।
इति सकलीकरणम् ।
ॐ अमृते ! अमृतोद्भवे ! अमृतं स्त्रावय ऐं क्ली' ब्लूं द्रां द्रीं द्रावय
द्रावय स्वाहा ।
விருபங்கள்
-
यो जपेज्जातिकापुष्पैर्भानुसंख्यसहस्त्रकम् । दशांशहोमसंयुक्तं च स्याद् वागीश्वरीसमः ||१||
महिषाख्यगुग्गुलेन प्रविनिर्मितचनकमात्रसद्गुटिकाः । होमस्त्रिमधुरयुक्तः तुष्टा देवी वरं दत्ते ||२||
अथैतत्पीठक्रमो लिख्यते -
पद्मोपरि पद्मासनस्था भगवतीमूर्तिः करचतुष्टयधृतवरपद्मा शिरस् षट्कोणाकारमुकुटभ्राजति नाभौ चतुर्दलपद्मधारिणी लेख्या । ततो नाभिपद्मे कणिकायां ॐ कारं लिखेत्, पूर्वादिचतुर्दलेषु न १ मः २ सि ३ द्धं ४ इत्यक्षराणि लेख्यानि । अधस्तनदक्षिणकरे षोडशदलं पद्मं कृत्वा तत्र कर्णिकायां ऐंकारं दत्त्वा पूर्वादिषोडषदलेषु क्रमेण षोडश स्वरान् लिखेत्, अधस्तनवामकरे पञ्चविंशतिदलं पद्मं कृत्वा तत्कर्णिकायां श्रींकार विलिख्य पूर्वादिपञ्चविंशतिदलेषु (क्रमेण) क्रमात् कादयो वर्गवर्णाः पञ्चविंशतिर्लख्याः । अथवोपरितनदक्षिणकरे अष्टदलं पद्मं कृत्वा तत्र कर्णिकायां साँ इति बीजं लिखित्वा पूर्वादिदलेषु य
-
व
ष
-
र ल
श
स
ह
इत्यष्टौ वर्णो लेख्या: उपरितनवामकरेऽप्यष्टदलं पद्मं कृत्वा तत्कर्णिकायां क्लीं इति बीजं दत्वा पूर्वाद्यष्टदलेषु व १ द २ व ३ द् ४ वा ५ ग्वा ६ दि ७ नि ८ इति वर्णा लेख्याः I शिरः षट्कोणे गर्भे ह्रींकारं लिखित्वा पूर्वादिकोणषट्के स १ र २, स्व ३ त्यै ४ न ५ म: ६ एवमक्षरषट्कं लेख्यम् । सर्वं शुक्लध्यानेन षटचक्रस्थापनं विधाय ध्येयम् ।
१ क्ष
इति शुद्धं श्रीसारस्वतम् ।
-
-