________________
१८. श्री श्रीबप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्पः ।
स्वच्छन्दोद्गतगद्यपद्यलहरी लीलाविलासामृतैः
- सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ||७|| " तद्वेदान्तशिरस्तदोकृतिमुखं तत् तत्कलालोचनं
पर तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्याङ्घि च । यस्त्वद्वम विभावयत्यविरतं वाग्देवते ! वाङ्मयं
शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ||८|| वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तबहि
- श्चाष्टद्वादश-षोडशद्विगुणितद्वयष्टाब्जपत्रान्वितम् । तबीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे
हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ||९|| ओमैं श्रीमनु सौं ततोऽपि च पुनः क्लीं वदौ वाग्वादिJame न्येतस्मादपि ही ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं
बुद्धिज्ञानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ||१०|| स्मृत्वा मन्त्रं सहस्त्रच्छदकमलमनुध्याय नाभीहृदोत्थं श्वेतस्निग्धोर्ध्वनालं हृदि च विकचतां प्राप्य निर्यातमास्यात् तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणिं वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ||११||स्त्रग्धरा. किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे
- भवति विमलवृत्तस्थूलमुक्तावलीयम् । - भवति भवति ! भाषे ! भव्यभाषाविशेषे
मधुरमधुसमृद्धस्तस्य वाचां विलासः ||१२|| मालिनी.
के इतिश्री बप्पभट्टिसूरिकृतं सरस्वतीस्तोत्रं सम्पूर्णम् ।