________________
श्री श्रीबप्पभट्टिसूरिकृत- सरस्वतीमन्त्रकल्पः
मूलमन्त्रश्चायम् ॐ ऐं श्रीं साँ क्लीं वद वद वाग्वादिनी ह्रीं सरस्वत्यै नमः । इति पाठशुद्धया मन्त्रं स्मरेत्, करजापो लक्षं जातिपुष्पैः सहस्त्राः १२ जापः । गुग्गुलगुटी १२०० त्रिमधुरमिश्राः कृत्वा होमः कार्य:, आश्विने चैत्रे वा नवरात्रेषु कार्य दीपोत्सवाऽमावास्यां वा ततः सिद्धिः ॥
आम्नायान्तरेण यन्त्रं लिख्यते, यथा
वृतं मण्डलं कृत्वा परितः पूर्वादौ चत्वारि दलानि, तत्र पूर्वदले ॐ ह्रीं देवतायै नमः १, दक्षिणदले ॐ ह्रीं सरस्वत्यै नमः २, पश्चिमदले ॐ ह्रीं भारत्यै नमः ३, उत्तरदले ॐ ह्रीं कुम्भदेवतायै नमः ४,
-
तद्बहिरष्टदले, तत्र पूर्वादितः ॐ मोहे यः १, ॐ नन्दे यः २, ॐ भद्रे यः ३, ॐ जये यः ४, ॐ विजये यः ५, ॐ अपराजिते य: ६, ॐ जम्मे यः ७, ॐ स्तम्मे यः ८, इति लेख्यम् । तद्बहिः षोडशदलानि, तत्र - ॐ रोहिण्यै नमः १, ॐ प्रज्ञपत्यै नमः इत्यादिषोडश देवीनामानि लेख्यानि, तद्बहिः पुनरष्टदलानि, पूर्वदले ॐ ह्रीं इन्द्राय नमः १ क्रमेण ॐ ह्रीं अग्नये नमः २, ॐ ह्रीं यमाय नमः ३, ॐ ह्रीं नैऋतये नमः ४, ॐ ह्रीं वरुणाय नमः ५, ॐ ह्रीं वायवे नमः ६, ॐ ह्रीं कुबेरायनमः ७, ॐ ह्रीं ईशानाय नमः ८ इति लिखेत् । ततो मायया त्रिरभिवेष्ट्य क्रौं कारेण निरुध्य परितः पृथ्वीमण्डलं कोणेषु प्रत्येकं चतुर्वजाङ्कितं कृत्वा मध्यकोणेषु लं प्रत्येकं लिखेत् ।
इति यन्त्रविधिः ।
यन्त्रमध्ये मन्त्रो भगवतीमूर्तिर्वा लेख्या ।
मन्त्रश्चायम् ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनी ! भगवति ! सरस्वति ह्रीं नमः । ऐतन्मन्त्रस्य पूर्वसेवा करजप्यः लक्षं जातीपुष्प जातिश्च १२००० ततो दशांश होमो धृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वा गुटिका संचूर्ण्यते । मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्तिर्वा भगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः । होमे स्वाहा ।
इति श्रीबप्पभट्टिसूरेराम्नायः ।
अथ पुनः श्री बप्पभट्टिसूरिविद्याक्रमे महापीठोद्धारो लिख्यते क्ली हसः पूर्ववक्त्राय नमः, १ ऐं क्ली हुसाँ: दक्षिणवक्त्राय नमः २ ऐं क्ली साँ: पश्चिमवक्त्राय नमः ३, ऐं क्ली हसाँ: उत्तरवक्त्राय नमः ४, ऐं क्ली हसः ऊर्ध्ववक्त्राय नमः ५ वक्त्रपञ्चकम् ।
पान
७
Focke
-जापश्च
-