________________
श्री मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः ।। पट्टकेऽष्टदलाम्भोज श्रीखण्डेन सुगन्धिना । जातिकास्वर्णलेखिन्या दूर्वादर्भेण वा लिखेत् ।।९।। ॐकारपूर्वाणि नमोऽन्तगानि शरीर-विन्यासकृताक्षराणि | प्रत्येकतोऽष्टौ च यथाक्रमेण देयानि तान्यष्टसु पत्रकेषु ||१०|| ब्रह्महोमनमःशब्दं मध्येकर्णिकमालिखेत् । कं कः प्रभृतिभिर्वणैर्वेष्टयेत् तन्निरन्तरम् ||११||
कं कः, चं चः, टं टः, तं तः, पं पः, यं यः, रं र:, लं लः, वं | वः, शं शः, षं षः, सं सः, हं हः, लं ल्लः, क्षं क्षः, खं खः, छं छः, | ठं ठः, थं थः, फं फः, गं गः, ज जः, डं डः, दं दः, बं बः, घं घः, | झं झः, ढं ढः, धं धः, भं भः, डं ङः, अं, ञः, णं णः, नं नः, मं |मः, एतानि केसराक्षराणि । पर बाह्ये त्रिर्मायया वेष्ट्य कुम्मकेनाम्बुजोपरि ।
प्रतिष्टापनमन्त्रेण स्थापयेत् तां सरस्वतीम् ||१२||
ॐ अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि ! ज्वलदीधिति ! स्वाहा प्रतिष्ठापनमन्त्रः ||
अर्चयेत् परया भक्त्या गन्धपुष्पाक्षतादिभिः । विनयादिनमोऽन्तेन मन्त्रेण श्रीसरस्वतीम् ||१३||
ॐ सरस्वती नमः । विनयं मायाहरिवल्लभाक्षरं तत्पुरो वदद्वितयम् । वाग्वादिनी च होमं वागीशा मूलमन्त्रोऽयम् ||१४|| ॐ ह्रीं श्रीं वद वद वाग्वादिनी स्वाहा | मूलमन्त्रः । यो जपेज्जातिकापुष्पैर्भानसख्यसहस्त्रकैः | दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ||१५|| महिषाक्षगुग्गुलेन प्रतिनिर्मितणकमानसद्गुटिकाः । होमस्त्रिमधुरयुक्तैर्वरदाऽत्र सरस्वती भवति ||१६|| देहशिरोद्रग्नासा सर्वमुखाननसुकण्ठहृन्नाभि । पादेषु मूलमन्त्रबीजद्वयवर्जितं ध्यायेत् ||१७|| श्वेताम्बरां चतुर्भुजां सरोजविष्टरस्थिताम् । सरस्वती वरप्रदामहर्निशं नमाम्यहम् ||१८|| साङख्यभौतिकचार्वाकमीमांसक दिगम्बरा: । सौगतास्तेऽपि देवि ! त्वां ध्यायन्ति ज्ञानहेतवे ||१९||
१ वेष्टत्तन्निरंतरं । २ ज्वलदीप्सिति ।