________________
W
५
श्रीमल्लिषेणाचार्यविरचित :
श्री सरस्वतीमन्त्रकल्पः
મુનિ હંસ વિ. શાસ્ત્ર સં. વડોદરા પ્રત નં. ૧૬૫૮ सुरत है. सि. ज्ञा. भं. तथा भैरव पद्मावती अस्प
जगदीशं जिनं देवमभिवन्द्यामिशङ्करम् । वक्ष्ये सरस्वतीकल्पं समासायाल्पमेधसाम् ||१|| अभयज्ञानमुद्राक्षमालापुस्तकधारिणी । त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ||२| लब्धवाणीप्रसादेन मल्लिषेणेनसूरिणा ।
रच्यते भारतीकल्पः स्वल्पजाप्यफलप्रदः ||३|| दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी । निर्भयो निर्मदो मन्त्री शास्त्रेऽस्मिन् स प्रशस्यते ||४|| पुलिने निम्नगातीरे पर्वतारामसङ्कुले । रम्यैकान्तप्रदेशे वा हर्म्ये कोलाहलोज्झिते ||५|| तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम् । कुर्यात् पर्यङ्कयोगेन सर्वव्यापारवर्जितः ॥६॥ तेजोवदद्वयस्याग्रे लिखेद् वाग्वादिनीपदम् । ततश्च पञ्च शून्यानि पञ्चसु स्थानकेष्वपि ||७|
ॐ वद वद वाग्वादिनी हाँ हृदयाय नमः । ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः । ॐ वद वद वाग्वादिनी हूँ शिखायै नमः । ॐ वद वद वाग्वादिन हैं। कवचाय नमः । ॐ वद वद वागवादिनी हः अस्त्राय नमः । इति सकलीकरणं विधातव्यम |
रेफैर्ज्वलद्भिरात्मानं दग्धमग्निपुरस्थितम् ।
ध्यायेदमृतमन्त्रेण कृतस्नानस्तत! सुधीः ! ||८ll
ॐ अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतं स्त्रावय स्त्रावय सं सं ह्रीं ह्रीं क्लीं क्लीं ब्लूं ब्लूं द्रां द्रां द्रीं द्रीं द्रू ड्रं द्रावय द्रावय स्वाहा | स्नानमत्रः । विनयमहा
ॐ ह्रीं पद्मयशसे योगपीठाय नमः । पीठस्थापनमन्त्रः ।
१ ह्रीं २ पज्ञयसे योगादिनमोऽतमध्यगंपीठ देवी पीठ स्थापनमनेन मंत्रेण कर्तच्यं ।