________________
१०८
GO
॥ श्री सरस्वती अष्टक ||
अनुष्टुप. ૬૦ થી ૬૮ નવ કૃતિઓના કર્તા પ. પૂ. ગુરુદેવ શ્રી ચંદ્રોદયસૂરિ મ.સા. ના
શિષ્ય મુનિ કુલચંદ્ર વિજય.
स्मर्यमाणा जनैः सर्वैः वन्द्यमाना कवीश्वरैः । ध्येयरूपा सुयोगीन्द्रैः स्तवीमि तां सरस्वतीम् ||१|| 10 श्रुताब्धिगाढलीना या भवाब्धिपरिशोषिणी । सर्वदा सर्वदा पूज्या स्तवीमि तां सरस्वतीम् ||२|| पूर्णचन्द्ररसासिक्ता सुधास्वादैकदायिनी । अज्ञता-पापहीया स्तवीमि तां सरस्वतीम् ||३|| त्वत्प्रसादाद् विना लोकः मूढतां परिमश्नुते ।। जडता-मोहान्धकारं वै स्तवीमि तां सरस्वतीम् ||४|| विद्वत्वं-सुमतित्वं च यत्कृपया सुलभ्यते । नम्रत्वं-वाग्मित्वं च स्तवीमि तां सरस्वतीम् ||५|| राजते कमलागर्भे राजहंसाधिसेविता | वीणा-पुस्तक-मालाभिः स्तवीमि तां सरस्वतीम् ||६|| त्वच्छिशुकरुणाकी शुद्धसन्मार्गपोषिणी । _ चिन्मयानन्दतादात्री स्तवीमि तां सरस्वतीम् ||७|| ऐंकारबीजमन्त्रेण नमः शब्दान्ते योजयेत् । लक्षजापात् भवेत्सिद्धिः स्तवीमि तां सरस्वतीम् ||८|| सरस्वत्याः प्रसादेन कारितमिदमष्टकम् । यावच्चंद्रोदयं भूयात् कुलचंद्रे तमोहरम् ॥९॥