________________
र हंसासीना हसन्ती मृदुमधुरकलां वादयन्तीं स्ववीणां, व तत्त्वग्रामं समस्तं प्रकटमविकलं सन्नयन्ती विकासम् । मुक्तामालां दधाना गुणिगणमहिता स्तूयमाना सुरेन्द्र र्वागीशा सुप्रसन्ना निवसतु वदनाम्भोरुहान्तः सदा मे ||१३|| स्त्रग्धरा. ऐन्दवीव विमलाकलाऽनिशं भव्यकैरवविकाशनोद्यता। तन्वतीनयविवेकभारती: भारती जयति विश्ववेदिनः ॥ कृतसमस्तजगच्छुभवस्तुता, जितकुवादिगणाऽस्तभवस्तुता । अवतु वः परिपूर्णनभा रती नुमरुते ददती जिनभारती ||१४|| अनादिनिधनाऽदीना धनादीनामतिप्रदा।
मतिप्रदानमादेयाऽनमा देयाज्जिनेन्द्रवाक् ||१५|| स शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणान्
आलीकेसरलालसा समुदिताऽऽशु भ्रामरीभासिता ॥ पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरी भासिता ||१६|| शार्दूल. भारति! द्राग जिनेन्द्राणां नवनौरक्षतारिके। संसाराम्भोनिधा वस्मा-नवनौ रक्षतारिके ||१७|| कुर्वाणाऽणु पदार्थ दर्शनवशाद् भास्वत्प्रभाया स्त्रपा मानत्या जनकृत्तमोहरत! मे शस्ताऽदरिद्रोहिका। अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां, मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ||१८|| शार्दूल. परमततिमिरोग्रभानुप्रभा भूरिभृगैर्गभीरा, भृशं विश्ववर्ये निकाय्ये वितीर्यात्परा महति मतिमते हि ते शस्यमानस्य वासं, सदाऽतन्वती तापदानन्दधानस्य साऽमानिनः । जननमृति तरङ्ग निष्पारसंसारनीराकरान्त, निमज्जज्जनोत्तार नौ भारती तीर्थकृत् ! महति मतिमतेहितेशस्य मानस्य वासं सदा,
तन्वती तापदानं दधानस्य सामानिनः ||१९|| अर्णवदण्दक जिनेन्द्र ! भङ्गैः प्रसमंगभीराऽऽशु भारती शस्यतमस्तवेन । निशियन्ती मम शर्म दिश्यात्, शुभाऽरतीशस्य तमस्तवेन ||२०||उपजाति.
शरदिन्द सन्दररुचिश्चेतसि सा मे गिरांदेवी। ___ अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ||२१||