________________
सम्यग्द्दशामसुमतां निचये चकार, सद्भा रतीरतिवरा मरराजिगे या। दिश्यादवश्यमखिलं मम शर्मजैनी, सद्भारती रतिवरामरराजिगेया ||२२||
वसंत. हन्ति स्म या गुणगणान् परिमोचयन्ती साभार रतीशमवतां भवतोदमायाः ।। ज्ञानश्रिये भवतु तत्पऽनोद्यतानां सा भारती शमवतां भवतोदमाया ||२३||वसंत.
यां द्राग् भवन्ति सुरमन्त्रिसमा नमन्तः, संत्यज्य मोहमधियोऽप्य समानमन्तः । वाग्देवता हतकुवादिकुलाभवणात्, सा पातु कुन्दविकसन्मुकुलाभ वर्णा ||२४|| वसंत. प्रकटपाणितले जपमालिका, कमलपुस्तकवेणुवराधरा। धवलहंससमाश्रुतवाहिनी, हरतु मे दुरितं भुवि भारती ||२५|| द्रुत. यशो धत्ते न जातारि-शमना विलसन् न या। साऽऽहती भारती दत्तां शमना विलसन्नया ||२७|| जिनस्य भारतीं तमो-वनागसङ्घनाशनीम् । उपेतहेतुमुन्नता-वनागसं घनाशनीम् ।। प्रमाणिका वाग्देवी वरदीभूत - पुस्तिकाऽऽपद्मलक्षितौ। आपोऽव्याद् बिभ्रती हस्तौ पुस्तिकापद्मलक्षितौ ||२८|| अनु. श्रुतनिधीशिनि ! बुद्धिवनाली दवमनुत्तम सारचिता पदम् । भवभियां मम देवि ! हरादरा दवमनुत्तमसा रचितापदम् ||२९|| द्रुत.
इति सम्पूर्णम् ।