________________
શ્રી શ્રુતદેવતાની સ્તુતિઓ धातुश्चतुर्मुखी कण्ठ-शृङ्गाटकविहारिणीम् । नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ||१|| वीणावादनदम्भेन शास्त्रतत्त्वविकासिका। हंसासनमुपासीना वाग्देवी श्रेयसेऽस्तु नः ||२|| यस्याः प्रसादविरहे मूकत्वं सर्वदा स्फुटम् । तामेकां वागधिष्ठात्री महादेवीमुपास्महे ||३|| सूक्ष्माय शुचये तस्मै नमो वाक् तत्त्वतन्तवे । विचित्रो यस्य विन्यासो विदधाति जगत्पटम् ||४|| पातु वो निकषग्रावा मतिहेम्नः सरस्वती। प्राज्ञेतरपरिच्छदं वचसैव करोति या ||५|| जलदुग्धनिर्णयविद्यौ यस्या वाहोऽपि विश्रुतो दक्षः । सा सदसत्त्वविबोधक वागीशा स्तान्ममाद्य गतिः ||६||
करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः । - पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ||७|| शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम्। करुणामसृणैः कटाक्षपातैः कुरु मामम्बकृतार्थ सार्थवाहम् ||८|| - आशासु राशी भवदङ्गवल्ली भासैव दासीकृतदुग्धसिन्धुम।
मन्दस्मितैर्निन्दित सारदेन्दुं वन्देऽरविन्दासन सुन्दरि!त्वाम् ।।९||इन्द्रवजा. वचांसि वाचस्पतिमत्सरेण साराणि लब्धं ग्रहमण्डलीव । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादाऽस्तु सरस्वती वः||१०||उपजाति. ज्योतिस्तमोहरमलोचनगोचरं तज्जिहादुरा सदरसं मधुनः प्रवाहम् ।। दूरे त्वचः पुलकबन्धिपरं प्रपद्ये सारस्वतं किमपि कामदुधं रहस्यम् ||११||
•
वसन्त.
तवकरकमलस्थां स्फाटिकमक्षमालां नखकिरणविभिन्नां दाडिमीबीजबुद्धया। प्रतिकलमनुकर्षन् येन कीरो निषिद्धः स भवतु मम भूत्यै वाणि ते मन्दहासः ||१२|| मालिनी.