________________
de
Te
de
WFrI
श्री सरस्वती स्तुत्याष्टकम् कर्ता. आ. श्री वि. सूशीलसूरि म.सा.
अनुष्टुप
૪૨
दिव्यां श्री शारदां वन्दे श्रुतदेवीं सरस्वतीम् । गां सुवागीश्वरीं वाणी कुमारीं हंसगामिनीम् ||१|| भारतिं भारतीं भाषां ब्रह्माणीं ब्रह्मचारिणीम् । त्रिपुरां प्राज्ञजननीं ब्राह्मिणीं ब्रह्मचारिणीम् ||२|| षोडशैतानि नामानि संस्मृत्य सिद्धिमाप्नुते । प्राणी प्रणयवान् नित्यं शान्तिं सुखं समश्नुते ||३|| तस्मै देवेन्द्र-दिक्पाल - ब्रह्मा-विष्णु शिवार्चिताम् । हंसयानसमारूढां श्वेतवस्त्रावृतां सदा ||४| पद्मासने स्थितां हस्ते धृतस्फटिकमालिकाम् । सुबुद्धिदामभयदामाद्यां संसारव्यापिनीम् ||५| कुन्देन्दुहारसदृशी धृतवीणाब्जपुस्तिकाम् । जाड्यान्धकार संहन्त्री शारदां परमेश्वरीम् ||६| स्तौति नौति सुशीलाय सायं प्रातर्दिवानिशम् । तस्मै देवी प्रसन्नात्मा सर्वामीष्टं प्रयच्छति ||७|| तस्मादेवाष्टकं कृत्वा नित्यं ध्यानपरायणः । सर्वदा वन्दते सूरिः सुशीलो जिनभारतीम् ||८ll
। इति षोडशनामयुक्तमष्टकं समाप्तम् ॥
८३
PPP