________________
तन्मन्त्रं जप सुन्दरं प्रतिदिनं संस्तभ्य चित्तं गिरः, तस्मादाशु कृती भविष्यसि परं पूज्यो महिमण्डले ||१२|| शार्दूल.
गुणबला सरला कमलाऽसना, धवल कुन्दरदा सुखदा विदा। मलयजट्रवलेपवती सती,
विजयते महतीह सरस्वती ||१३|| द्रुतविलम्बित. सदा कराब्जोपरिखेलनोत्सका, मनोहरा ते जपमालिका वरा।
श्रुताब्धिमध्योद्भव सुखरोज्ज्वला, कलामहादानप्रदानसाग्रहा ||१४|| 'स्तोत्रं सुशीलविजयेन हि सूरिणेदं, दृब्धं शुभं पठति भक्तिभृतस्तु योऽत्र । तस्मै प्रसन्न वरदा वरदायिनी स्यात् सिद्धिप्रदा द्रुततरं श्रुतदेवतेयम् ||१५|| 2 गुण-गुणाभ्र करान्वित वैक्रमे, मरुधरस्य सिरोहि पुरे समे।
भृगुदिने विजयादशमी तिथौ, मम कृता स्तुति राश्विनमासि वै ||१६| यावच्चन्द्र-दिवाकरौ प्रभवतः यावच्चमेर्वाद्रिकः, नक्षत्राणि नवग्रहाश्च वसवः यावत् महासागराः । तावत्स्तोत्रमिदं शुभाय पठतां भूयादितिप्रार्थये, वाग्देवीं वरदायिनी गुणवती कल्याणदात्रीमहम् ||१७|| शार्दूल.
। इति श्री सरस्वतीस्तोत्रं समाप्तम् ।
૧ આ સ્તોત્ર પૂ. આ. શ્રી વિજય સૂશીલસૂરિ મહારાજે રાજસ્થાન સિરોહી નગરમાં વિક્રમ સંવત ૨૦૭૩ આસો સુદ-૧૦ શુક્રવારના દિવસે બનાવેલું છે.