SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ PA मंत्रानुभावसिद्धा मलयगिरिहेमचंद्र देवेन्द्रौ । श्रीवृद्धमल्ल-पूज्यो षष्ठो श्री बप्पभट्टगुरुः ||१३|| त्वत्करुणामृतसिक्ता एते षट् सभ्यमान्यसद्वचनाः । जाताः शासनभासन दक्षास्तत्वामहं स्तौमि ||१४|| त्वत्पदसेवा योगो हंसोऽपि विवेकमान्महीविदितः । येषां हृदि तव पादौ भाषे पुनरत्र किं तेषाम् ||१५|| स्पष्टं वद वद मातः हंस इव त्वत्पदाम्बुजे चपलं। हृदयं कदा प्रसन्नं निरतं संपत्स्यते नितराम् ||१६|| रससंचारणकुशलां ग्रन्थादौ यां प्रणम्य विद्वांसः । सानन्दग्रन्थपूर्ति मश्नुवते ता स्तुवे जननीम् ||१७|| प्रवराऽजारी ग्रामे शत्रुञ्जयरैवतादि तीर्थेषु । राजनगर रांतेजे स्थितां स्तुवे पत्तनेऽपि तथा ||१८|| अतुलस्तवप्रभावः सुरसंदोहस्तु ते मया बहुशः । अनुभूतो गुरुमंत्र ध्यानावसरे विधानाढ्ये ||१९|| ते पुण्यशालिधन्या विशालकीर्ति प्रतापसत्त्वधराः । कल्याणकांतयस्ते ये त्वां मनसि स्मरन्ति नराः ||२०|| विपुला बुद्धिस्तेषां मंगलमाला सदामहानन्दः । ये त्वदनुग्रहसाराः कमला विमला भवेत्तेषाम् ||२१| गुणनंदनिघीन्दुसमे श्रीगौतमकेवलाप्तिपुण्यदिने । श्री जिनशासनरसिके जैनपुरीराजनगरवरे ||२२|| विज्ञानपुअलाभा श्रुतदेवी विशिका विशालार्था । प्रणवादिमन्त्रबीजा श्रुतार्थिभव्याङ्गि पठनीया ||२३|| रचिता सरलरहस्या पूज्यश्रीनेमिसूरि शिष्येण | श्रीपद्मसूरिणेयं मुनिमोक्षानन्दपठनार्थम् ||२८|| शासनसम्राट् श्रीविजयनेमिसूरीश्वराणां शिष्य वि. पद्मसूरीश्वरजीविरचितं सरस्वतीविंशिकास्तोत्रसम्पूर्णम् ॥
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy