________________
७९
४० श्री पद्मसूरीश्वरजीविरचितं || श्रीसरस्वतीस्तोत्रम् ॥
आर्याच्छंदः ।
श्री स्तंभनपतिपार्वं नत्वा गुरुवर्यनेमिसूरिवरं । प्रणयामि भक्तिभावतः सरस्वती स्तोत्रमुन्नतिदं ॥१॥ सदतिशयान्वित रूपा जिनपति वदनाब्जवासिनी रम्या। नयभंगमानभावा प्रभुवाणी साऽस्तु वो वरदा ॥२॥ तदधिष्ठायकभावं प्राप्ता श्रुतदेवता चतुष्पाणिः ।। श्री गौतमपदभक्ता सरस्वती साऽस्तु वो वरदा ||३|| प्रवचनभक्ताभव्या यां स्मृत्वा प्राप्नुवन्ति वरबुद्धिं । कमलासने निषण्णा सरस्वती साऽस्तु वो वरदा ||४|| विघ्नोत्सर्जननिपुणा मज्ञानतमोऽपहां विशदवर्णां । सितवस्त्रमालिनीं तां प्रणौम्यहं भारती भव्यां ||५|| विशदाभरण विभूषां निर्मलदर्शनविशुद्धबोधवरां। सुरगीतरते महिषीं नमाम्यहं शारदाजननीम् ||६|| यस्या ध्यानं दिव्यानन्दनिदानं विवेकिमनुजानां । संघोन्नतिकटिबद्धां भाषां ध्यायामि तां नित्यम् ||७|| प्रस्थानस्मृतिकाले भावाचार्याः निवेश्य यां चिते। कुर्वन्ति संघभद्रं वाणीं तां प्रणिदधेऽनु दिनम् ।।८।। श्रुतसागरपारेष्टप्रदान-चिंतामणिं महाशक्तिं। दिव्यांगकांतिदीप्तां मरालवाहनां नौमि ॥९॥ पुस्तकमालालंकृतदक्षिण हस्तां प्रशस्तशशिवदनां । पङ्कजवीणालंकृत - वामकरां भगवतीं नौमि ||१०|| वागीश्वरि ! प्रसन्ना त्वं भव करुणां विधाय मयि विपुलां। येनाश्नुवे कवित्वं निखिलागमतत्त्वविज्ञानम् ||११|| ॐ ह्रीं क्लीं वाग्वादिनि ! वद वद मातः सरस्वति प्रौढे । तुभ्यं नमो जयन्त्वि - त्येतन्मन्त्रं सदा भव्याः ||१२||