________________
३८
WW 200
७७
। श्री लिङ्गपुराणे बृहस्पतिकृतस्तोत्रम् ।
પાટણ પ્રત નં. ૧૪૭૫૦ अनुष्टुप
सरस्वतीं नमस्यामि चेतिनी हृदि संस्थिताम् । कंठस्थां पद्मयोनेऽस्तु ह्रीं ह्रीं कार प्रियां शुभाम् ||१|| मतिदां वरदां शुद्धां वीणाहस्तां वरप्रदाम् । ऐं ऐं मंत्र प्रियां ह्रीं ह्रीं कुमतिध्वंसकारिणीम् ॥२॥ सुप्रकाशां निरालम्बामज्ञान तिमिरापहाम् । शुक्लांमोक्षप्रदां रम्यां सुभगां शोभनप्रियाम् ||३|| आदित्यमंडले लीनां प्रणमामि हरेः प्रियाम् । पत्रोपविष्टां कुण्डलिनीं शुक्लवर्णां मनोरमाम् ||४||
इति सा संस्तुता देवी वागीशेन महात्मना । आत्मानं दर्शयामास शरदिंदुसमप्रभाम् ||५||
श्री सरस्वती उवाच :
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
बृहस्पति रुवाच :
ददस्व निर्मलं ज्ञान - मज्ञानतिमिरापहम् ||६||
सरस्वत्युवाच :स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति सदा नराः, त्रिसन्ध्यायां शुचिर्भूत्वा पाठं वा पठते द्विजः, | तेषां कंठे सदा वासं करिष्यामि न संशयः ||७||
इति लिंगपुराणे बृहस्पतिकृतं सरस्वतीस्तोत्रं सम्पूर्णम् ॥
Sud