________________
कवि शक्ते! नमस्तुभ्यं कलिनाशिनि! ते नमः । कवित्वदे! नमस्तुभ्यं मत्तमातङ्गगामिनि ! ||१४|| जगद्धिते! नमस्तुभ्यं नमः संहारकारिणी ! | विद्यामयि! नमस्तुभ्यं विद्यां देहि दयावति ! ||१५||
। इति नमस्काराः समाप्ताः ।
34
श्री सरस्वती द्वादश नामस्तोत्रम् ।
अनुष्टुप
मातरं भारती दृष्टवा वीणा-पुस्तकधारिणीम् । हंसवाहन संयुक्तां प्रणमामि महेश्वरीम् ||१|| प्रथम भारती नाम द्वितीयं च सरस्वती। तृतीयं शारदा देवी चतुर्थं हंसवाहिनी ||२|| पञ्चमं विश्वविख्याता षष्ठं वागीश्वरी तथा। कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी ||३|| नवमं बुद्धिदात्री च दशमं वरदायिनी। एकादशं चन्द्रधण्टा द्वादशं भुवनेश्वरी ||४|| द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । सर्वसिद्धिं प्रदेह्यस्तु प्रसन्ना परमेश्वरी ||५|| जिह्वाग्रे वसति नित्यं ब्रह्मरूपा सरस्वती। सरस्वति! महाभागे ! वरदे कामरूपिणी ||६||
। इति सम्पूर्णम् ।