________________
પક
वामे - पुस्तकधारिणीमभयदां साक्षस्त्रजं दक्षिणे, भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तनयननिग्धप्र भालो किनीं, ये त्वामम्ब ! न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥७॥ ये त्वां पाण्डुरपुण्डरीक पटलस्पष्टाभिरामप्रभां, सिज्जन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदैः निर्याति वक्त्राम्बुजात, तेषां भारति ! भारतीसुरित् कल्लोललोलोर्मिभिः ||८|| ये सिन्दुरपरागपुज्जपिहितां त्वत्तेजसा द्यामिमा, मुर्वी चापि विलिनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यननयमनसस्तेषामनङ्गज्वर,
क्लान्तास्त्रस्तकुरङ्ग-शावकदशो वश्या भवन्ति स्त्रियः ॥९॥
चज्जत्काच्चन-कुणडलाङ्गदधरामाबद्ध-काज्जीस्त्रजं, ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेधां वेश्मनि विभ्रमादहरहः स्फारीभवन्त्यचिरम् माद्यत्कुज्जरकर्णतालतरलाः स्थैर्य भजन्ते श्रियः || १० || आर्भट्य शशिखण्डमण्डितजटाजूटां नृमुडस्त्रजं, बन्धुकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं, मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंपत्तये ।।११।।
જ્ઞાનસાધના અને સરસ્વતી વંદના