________________
एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशेः सदाहः स्थिता, छिन्धादः सहसा पदैस्त्रिभिरधं ज्योतिर्मयी वाडमयी ॥१॥. या मात्र त्रिपुषी३ लतातनुलसत्तन्तूस्थिथि स्पर्द्धिनी, वाग्बीजे प्रथमे स्थिता तब सदा तां मन्महे ते वयम् । शक्तिं कुण्डलिनीति विश्वजननव्यापार बद्धोद्यमां, ज्ञानत्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ॥२॥ दृष्टवा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहतं, येनाकूतवशादपदपीह वरदे ! बिन्दुं विनाऽप्यक्षरम् । तस्यापि धुवमेव देवि ! तरसा जाते तवाऽनुग्रहे, वाचः सूक्तिसुधारसद्रवमुचो निर्यान्तिय क्त्राम्बुजात् ॥३॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं, तत् सारस्वतमित्यवैति कश्चिद् बुधश्चेद् भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदं प्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥ यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै, स्तार्तीयीकमहं नमामि मनसा तद्वीजमिन्दुप्रथम् अस्त्त्वौर्वोऽपि सरस्वतीमनुगतो जाऽयाम्बुविच्छित्तये,. गौःशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥५॥ एकैकं तव देवि ह बीजमनधं सव्यज्जनाव्यज्जनं, कूटस्थं यदि वा पृथक्क्रमगतं यद्धा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनाऽपि वा चिन्तितं, जप्तं वा सफलीकरोति तरसां तं तं समस्तं नृणाम् ॥६॥
શાન સાધના અને સરસ્વતી વંદના