________________
१५. ॥ श्री शारदादेवी - नमस्कार : ॥
अनुष्टुप
श्री शारदे ! नमस्तुभ्यं जगद् भुवनदीपिके ! विद्वज्जनमुखाम्भोज भृङ्गिके । मे मुखे वस ॥ १ ॥
वागीश्वरी ! नमस्तुभ्यं नमस्ते हंसगामिनी । नमस्तुभ्यं जगन्मात र्जगत्कत्रि नमोऽस्तुते ||२|| शक्तिरुपे ! नमस्तुभ्यं कवीश्वरि ! नमोऽस्तुते नमस्तुभ्यं भगवति । सरस्वति ! नमोऽस्तुते ||३|| जगन्मुखे ! नमस्तुभ्यं वरदायिनि ! ते नमः नमोऽस्तु तेऽम्बिकादेवि ! जगत्पावनि ! ते नमः ||४||
शुक्लाम्बरे ! नमस्तुभ्यं ज्ञानदायिनि ! ते नमः - ब्रह्मरुपे ! नमस्तुभ्यं ब्रह्मपुत्र ! नमोऽस्तुते ||५||
विद्वन्मात ! नमस्तुभ्यं वीणाधारिणि ! ते नमः । सुरेश्वरि ! नमस्तुभ्यं नमस्ते सुरवन्दिते ! ||६||
भाषामयि ! नमस्तुभ्यं शुकधारिणि ! ते नमः । पङ्कजाक्षि ! नमस्तुभ्यं मालाधारिणि ! ते नमः ॥ ७ ॥
નાનસાધના અને સરસ્વતી વંદના
८१.