________________
86MMm
परिशिष्ट-५ रत्नप्रभायामुल्लिखिताः
नियमाः उद्देश्यतावच्छेदक-विधेयतावच्छेदकयोरैक्ये शाब्दबोधानुपपत्तिः । सम्भवे व्यभिचारे च विशेषणमर्थवद् । व्यापारमन्तरेण कर्तुः क्रियाकारकत्वासम्भवः । अभावाभावस्य प्रतियोगिरूपत्वम् । यद् अव्यवधानेन करणं तदेव साधकतमत्वात् प्रमाणम् । सामान्यावान्तरधर्मेण धर्मिजिज्ञासायां सामान्यधर्मप्रकारकज्ञानस्य हेतुत्वम् । विशेषधर्मग्रहणे सामान्यधर्मिग्रहणस्य कारणत्वम् । परिभाषाया अपर्यनयोज्यत्वम । कारणभेदाभावे कार्यभेदासम्भवः । यो यस्य विषयस्तज्ज्ञानमेव तेन जन्यते । सहकारिकारणं स्वविषये एव करणस्य बलमादधाति, न तु स्वाविषये करणप्रवृत्तिमाधातुमलम् । अनुभवे प्रमाणे सत्येव तज्जन्या स्मृतिः प्रमाणा । यो यज्ज्ञानस्य विषयः, तत्रैव तज्ज्ञानस्य प्रवृत्तिः । या यद्विषयका प्रवृत्तिः, सा तद्विशेष्यकेष्टसाधनत्वप्रकारकज्ञानसाध्या । बिम्बमन्तरेण प्रतिबिम्बस्याऽनुपपत्तिः । विकल्पसिद्ध धर्मिणि सत्तासत्तयोरेव साध्यत्वम् । अभावस्य प्रतियोगिनिरूप्यत्वात् प्रसिद्धस्यैव प्रतिषेधो भवति । यत्राऽनेकवृत्तित्वं तत्राऽनेकत्वम् ।। कथायां प्रयुक्तमेव प्रमाणं प्रमाणतां भजते । न तत्स्वरूपमविज्ञायैव तत्र सङ्केतकरणम् । तदभिन्नाभिन्नस्य तदभिन्नत्वम् । तत्सम्बन्धिन एव तन्निष्ठधर्मावच्छेदकत्वम् । सर्वे सर्वार्थवाचकाः । विभिन्नधर्माध्यासस्य भेदकत्वम् । .. परस्परविरोधे हि.न प्रकारान्तरस्थितिः । अर्थक्रियास्वरूपयोग्यता सहकार्यन्तरविरहात् कार्याजननेऽपि न व्यावर्त्तते । समवायेनाऽऽधेयत्वमपि समवाय एव ।
९८
११२ ११५
१२५
१४० १४२
१५६
१७१ १७७
१८३ १९० १९१ १९२
१९६ १९९ २०६