________________
जैनतर्कभाषा (मूल )
सम्पादकः - पण्डित सुखलालजी संघवी प्रतिपरिचय
मु० - मुद्रित - यशोविजयकृतग्रन्थमाला (पृ. ११३ - १३२ ) प्र. भावनगर जैनधर्म प्रसारक सभा
व०
-
परिशिष्ट - १
महोपाध्याय श्रीयशोविजयकृता
प्रo प्रवर्त्तक श्रीमत् कांतिविजय पुस्तकसंग्रह, लेखन संवत् १७३६
-
सं०
पाटण संघ पुस्तक संग्रह ( वखतजीनी शेरी) डब्बा नं० ४० पोथी नं० ३६ पृष्ठ ४०-५३
पाटण संघ पुस्तक संग्रह ( वखतजीनी शेरी) डब्बा नं० २७, १. प्रमाणपरिच्छेदः ।
ऐन्द्रवृन्दनतं नत्वा जिनं तत्त्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ॥
पोथी नं० २५
[प्रमाणसामान्यस्य लक्षणनिरूपणम् ।]
तत्र-स्वपरव्यवसायि ज्ञानं प्रेमाणम् - स्वम् आत्मा ज्ञानस्यैव स्वरूपमित्यर्थः, परः तस्मादन्योऽर्थ इति यावत्, तौ व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्ध्यादिवादिनां मीमांसकादीनाम्, बाह्यार्थापलापिनां ज्ञात्राद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् ।
ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत्, सत्यम्, स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात् प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत्, न, प्रमाण - फलयोः कथञ्चिदभेदेन तदुपपत्तेः ।
इत्थं चात्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । न ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेण क्रियाजननायोगात्, मसृणतूलिकादिसन्निकर्षेण सुषुप्तस्यापि तत्प्रसङ्गाच्च ।
केचित्तु
"ततोऽर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः ।
करणत्वेन निर्दिष्टा न विरुद्धा कथञ्चन ॥" [ तत्त्वार्थश्लोकवा० १.१.२२] इति
१. ० निःक्षेपै० प्र० सं० व० । २. प्र० न० १.२ । ३. स्या० २० पृ० ३३ ३४ । ४. स्या० २० पू० ५० ।