________________
नयविशेषनिरूपणम्
२११ इत्यनियमात्, अन्यथा नयत्वहानिप्रसङ्गात्, समुदयवादस्य स्थितपक्षत्वादिति द्रष्टव्यम् ।
चारित्रेति । चारित्रलक्षणक्रियायाः, श्रुतपदेन ज्ञानस्य, सम्यक्त्वपदेन सम्यग्दर्शनस्य प्रतिपादनम् । ननु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति तत्त्वार्थसूत्रतः सम्यग्ज्ञानदर्शनचारित्राणां त्रयाणां मोक्षकारणत्वं जैनराद्धान्तानुमतम्, तच्च नैगमादयो नया अपि मन्यन्ते इति तेषां प्रमाणत्वं भवेत्, कुतो ज्ञाननयत्वमित्यपेक्षायामाह-तथापीति । तथापि त्रयाणां मोक्षकारणत्वमभ्युपगच्छन्तोऽपि, व्यस्तानामेव-मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकविभिन्नधर्माकलितानामेव । एवं सत्येव ज्ञानस्य प्राधान्येन कारणत्वम्, तदन्ययोश्च गौणतयेत्युपगमः तेषां युज्यते, समुदितानां कारणत्वे तु सर्वेषां प्राधान्यमेव स्यादित्याह-न तु 'समस्तानामिति ।
उक्तसूत्रे च मोक्षमार्ग इत्येकवचनस्यैकत्वमर्थं विविक्षतम्-अन्यथा विशेषणवाचकपदस्य विशेष्यवाचकपदोत्तरविभक्ति-तात्पर्यविषयसङ्ख्या-विरुद्धसङ्ख्याविवक्षाविषयत्वाभाववद्-विभक्तिकत्वत:२ समानवचनत्वस्यैव नियमेन मोक्षमार्गा इति बहुवचनान्तत्वं प्रसज्येतेति मोक्षमार्मत्वं मोक्षं प्रति कारणत्वम्, तत्र तद् एकत्वमन्वेति । एवञ्च त्रयाणां मोक्षं प्रत्येककारणत्वं सूत्रोपदिष्टं तदा स्याद्, यदि समुदितानामेव कारणत्वं भवेदिति समुदितकारणत्वाभ्युपगमे सत्येव प्रमाणत्वम्, तच्च तेषां नाऽस्तीति ।
कुतो न नैगमादयः समस्तानां कारणत्वमिच्छन्तीत्यपेक्षायामाह-एतन्मते इति ।
पक्षे ज्ञानादित्रयादेव मोक्ष इति नियमात् ज्ञानदित्रयपर्याप्तैव मोक्षनिरूपितकारणता शिक्षाऽभ्यासप्रतिभात्रयपर्याप्ता काव्यकारणतेव पर्यवस्यति, न तु तृणारणिमणिवत् प्रत्येकज्ञानादिविश्रान्ता ।
नैगमादिनयानां मते पुनः मोक्षनिरूपितकारणतायाः प्रत्येकं ज्ञानादिषु, वह्निकारणतायाः प्रत्येकं तृणारणिमणिष्विव विश्रान्ततया न तेषां स्थितपक्षत्वं सम्यग्दृष्टित्वं वा । अयमेव हि नयवादसिद्धान्तवादयोर्भेदो यन्नयाः त्रीनपि ज्ञानादीन् मोक्षकारणत्वेन मन्यमाना अपि प्रत्येकस्मिन् स्वातन्त्र्येणैव कारणत्वं कल्पयन्तस्त्रीनपि पृथक् पृथक् मोक्षकारणत्वेन स्थापयन्ति । तन्मते हि ज्ञानमात्रसेविनाम्, दर्शनमात्रसेविनाम्, चारित्रमात्रसेविनां च तुल्यतया मोक्षाधिकारात् । सिद्धान्तवादस्तु न कुतोऽपि ज्ञानादेरेकैकस्मात् मोक्षलाभमिच्छति किंतु परस्परसहकारिभावापन्नात् तत्त्रयादेव । अत एव व्यस्तकारणतावादी नयः समस्तकारणतावादी च सिद्धान्त इत्यप्यभिधातुं शक्यम् । अत्रार्थे विशेषा० २६३२ गाथाऽनुसन्धेया । १. मोक्षतावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकीभूतैकधर्माकलितानामित्यर्थः । २. यथा 'नीलो घटः' इत्यत्र विशेष्यवाचकपदं 'घटः', तदुत्तरविभक्तिः 'सि', तत्तात्पर्यविषयसङ्ख्या 'एकत्वम्',
तद्विरुद्धसङ्ख्या 'व्यादि', तद्विवक्षाविषयत्वाभाववद्विभक्तिः 'सि', तत्कत्वं 'नीलः' इत्यस्मिन् ।