________________
२१०
सटीकजैनतर्कभाषायां स्वार्थो नाऽस्य, स सर्वनयमतोऽपि नैतन्नयाभ्युपगमविषय इति न प्रमाणत्वमस्येत्याह-सर्वेति । स्वार्थस्य-स्वाभिमतार्थस्य, तेन-निश्चयनयेन ।
एवं ज्ञाननय-क्रियानयभेदेनाऽपि नयस्य द्वैविध्याद् ज्ञाननयस्वरूपमाहतथा ज्ञानमात्रप्राधान्याभ्युपगमपरा ज्ञाननयाः। .
मुक्तौ प्राधान्येन ज्ञानमेव कारणमित्यभ्युपगमपरा अभिप्रायविशेषा ज्ञाननया इत्यर्थः । ज्ञाननयत्वेनाऽभिमता नैगमसङ्ग्रहव्यवहाराः त्रय इति तेषां बहुत्वाद् बहुवचननिर्देशः ।
क्रियानयस्य स्वरूपमाहक्रियामात्रप्राधान्याभ्युपगमपराश्च क्रियानयाः ।।
मुक्ति प्रति प्राधान्येन क्रियाया एव कारणत्वमित्यभ्युपगमपरा अभिप्रायविशेषाः क्रियानया इत्यर्थः । अत्रापि क्रियानयत्वेनाऽभिमतानामृजुसूत्रशब्दसमभिरूद्वैवम्भूतानां चतुर्णा बहुत्वाद् बहुवचननिर्देशः।
ये ज्ञाननयत्वेनाऽभिमताः तेषां मते क्रियाया अपि कारणत्वाभ्युपगमोऽस्त्येव, तथापि प्राधान्येन ज्ञानस्यैव-'ऋते ज्ञानाद् न मुक्ति रित्यस्य प्राधान्येनाऽवलम्बनात् । 'न ह्येकचक्रो हि रथः प्रयाती'त्यतः सहकारितया विशुद्धक्रियाचरणतो मनसो विशुद्धिभावेन ततः सम्यग्ज्ञानोदयादिति पृथग्भावेन (पृथग्भावे न ?) कारणत्वम् । अज्ञानाद् बन्ध इत्यज्ञाननिवृत्तिरूपा मुक्तिः । ये च क्रियाप्रधानवादिनः तेषामपि मुक्तौ ज्ञानं कारणम्, परं प्रधानं कारणं क्रियैव । अमुकस्माद् भेषजादमुकव्याधेरुपशान्तिरिति जानतोऽपि रोगिणो विधित औषधस्याऽसेवने रोगनिवृत्तेरभावादिति क्रियाया एव प्रधानतेति बोध्यम् ।
तत्रर्जुसूत्रादयः चत्वारो नयाः चारित्रलक्षणायाः क्रियाया एव प्राधान्यमभ्युपगच्छन्ति-तस्या एव मोक्षं प्रत्यव्यवहितकारणत्वात् ।
तत्र-ज्ञाननयक्रियानययोर्मध्ये । ऋजुसूत्रादय इत्यत्राऽऽदिपदेन शब्दादिनयानां ग्रहणम्। क्रियायाः प्राधान्ये निमित्तमाह-तस्या इति । तस्याः क्रियायाः ।
नैगमसङ्ग्रहव्यवहारास्तु यद्यपि चारित्रश्रुतसम्यक्त्वानां त्रयाणामपि मोक्षकारणत्वमिच्छन्ति, तथापि व्यस्तानामेव, न तु समस्तानाम् । एतन्मते ज्ञानादित्रयादेव मोक्ष
'तथा, ज्ञानमात्र०'-विशेषा० बृ० गा० ३५९२ । नयोपदेश का० १२९-१३८ । 'तत्रर्जुसूत्रा०'-विशेषा० गा० २६२१-२६३२ । 'स्थितपक्षत्वात्'-अत्रायं भावः-स्थितपक्षः सिद्धान्तपक्ष इति गीयते । तथा च सिद्धान्त