________________ ( 136) इन्द्रवंशा-छन्दः-- शरेषु रत्नेन्दु ( 1955) मिते हि विक्रमे, संवत्सरे फाल्गुनिकेऽसिते दले / इज्येतिलक्ष्मान्वितबाण (5) सत्तिथौ, तेषु प्रतिष्ठां मुनिराडकारयत् // 17 // इन्द्रवजा-छन्दः-- राजेन्द्रसूरिविधिना जिनानां, पट्टावली गायति सच्चरित्राम्। आकर्ण्य यां वेत्ति नरश्चरित्रं, श्रामण्यभाजां प्रियमाहेतानाम् / / वंशस्थ-छन्दःश्रीवर्धमानस्य च विश्ववेदिनो, जातः सुधर्मा गणधारिपञ्चमः। तस्यैव पट्टेऽधिकृतोऽतिभूरिषु, वर्षेष्वतीतेष्वभवन्मुनीश्वरः / / इन्द्रवज्रा-छन्दः-- यो मेदपाटक्षितिभर्तृराणा-मान्यस्तपागच्छपयोधिचन्द्रः / भासीजगश्चन्द्र इति प्रसिद्धः, सूरीश्वरस्तस्य चरत्नसुरिः॥ पट्ट समारुह्य विशुद्धशीला, प्राद्योतयच्छासनमार्हतं यः। शिष्योऽभवत्तस्य यथार्थनामा, श्रीमान् क्षमासूरिवरोमनीषी अनुष्टुब्-छन्दःमारुरोह च तत्पढें, कल्याणविजयो गुरुः / येन प्रभाविते धर्मे, कल्याणानि पदे पदे // 22 / / __ आर्या-छन्दःश्रीमान् प्रमोदविजय-स्तस्य च पट्टे समास्थितो यस्य / धर्मकथामृतपानाच्छाद्धकुलानि प्रमुदितानि // 23 //