________________
તરવચ્છષ્ટકમ,
॥ १९॥ तत्त्वदृष्टयष्टकम् ॥ रूपे रूपवती दृष्टि, दृष्ट्वा रूपं निमुह्यति ॥ मज्जत्यात्मनि नीरुपे, तत्त्वदृष्टिस्त्वरूपीणी ॥१॥ भ्रमवाटी बहिर्दृष्टि, भ्रमच्छाया तदीक्षणं ॥ अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाशया ॥२॥ प्रामारामादि मोहाय, यदृष्टं ब्राह्ययादृशा ॥ तत्त्वदृष्टया तदेवांत, नीतं वैराग्य संपदे ॥ ३ ॥ बाह्यदृष्टिः सुधा सार, घटिता भाति सुंदरी ॥ तत्त्वदृष्टेस्तु सा साक्षा, द्विण्मूत्रपिठरोदरी ॥ ४ ॥ लावण्य लहरी पुण्यं, वपुःपश्यति बाह्यदृक् ॥ तत्त्वदृष्टिः श्वकाकानां, भक्ष्यं कृमिकुलाकुलं ॥ ५॥ गजाश्वैर्भूपभवनं, विस्मयाय बहिर्दशः॥ तत्राश्वेभवनात्कोऽपि, भेदस्तत्त्वदृशस्तुन ॥६॥ भस्मना केशलोचेन, वपु धृतमलेन वा ॥ महान्तं बाह्यदृग्वेत्ति, चित्साम्राज्येन तत्त्ववित् ॥७॥ न विकाराय विश्वस्यो, पकारायैवनिर्मिताः ॥ स्फुरत्कारुण्यपीयूष, वृष्टयस्तत्त्व दृष्टयः ॥८॥