________________
વિવેકાણકમविभिन्नी कुरुते यो ऽसौ, मुनिहंसो विवेकवान् ॥१॥ देहात्माद्य विवेको ऽयं, सर्वदा सुलभो भवे ॥ भव कोटयापि तद् भेद, विवेकस्त्वति दुर्लभः ॥२॥ शुद्धे ऽपि व्योम्नि तिमिरा, देखाभिर्मिश्रता यथा ॥ विकार मिश्रता भाति, तथात्मन्य विवेकतः ॥ ३ ॥ यथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते ॥ शुद्धात्मन्य विवेकेन, कर्म स्कंधो ऽर्जितं तथा ॥४॥ इष्टकाद्यपि हि स्वर्ण, पीतोन्मत्तो यथेक्षते ॥ आत्माभेदभ्रमस्तद्ध, देहादावविवेकिनः ॥५॥ इच्छन्न परमान भावान्, विवेकानेः पतत्यधः ॥ परमं भावमन्विच्छन् , नाविवेके निमज्जति ॥ ६ ॥ आत्मन्येवात्मनः कुर्यात्, यः षट्कारक संगतिम् ॥ काविवेकज्वरस्यास्य, वैषम्यं जड मज्जनात् ॥७॥ संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः ॥ धृतिधारोल्वणं कर्म, शत्रुच्छेद क्षमं भवेत् ॥८॥