________________
શ્રી જૈનહિતોપદેશ ભાગ ૩ જે. જેઓ છતાયા નથી તેઓજ ધીર પુરૂષમાં ધુરંધર છે. જિતેપ્રિય પુરૂષે જ ખરા શુરવીર ગણાય છે.
॥८॥ त्यागाऽष्टकम् ॥ संयमात्मा श्रये शुद्धो, पयोगं पितरं निजम् ॥ धृतिमंबांच पितरौ, तन्मां विसृजतं ध्रुवम् ॥ १॥ युष्माकं संगमोऽनादि, बंधवोऽनियतात्मनाम् ॥ ध्रुवैक रूपान् शीलादि, बंधूनित्यधुनाश्रये ॥२॥ कान्ता मे समतै वैका, ज्ञातयोमे समक्रियाः॥ बाह्य वर्गमिति त्यक्त्वा, धर्म संन्यासवान् भवेत् ॥३॥ धर्मास्त्याज्याः सुसंगोत्थाः, क्षायोपशमिका अपि ॥ प्राप्य चंदन गंधाभ, धर्म संन्यास मुत्तमम् ॥ ४॥ गुरुत्वं स्वस्य नोदेति, शिक्षा सात्म्येन यावता॥ आत्म तत्त्व प्रकाशेन, तावत् सेव्यो गुरूत्तमः॥५॥ ज्ञानाचारादयोपीष्टाः, शुद्ध स्व स्वपदावधि । निर्विकल्पे पुनस्त्यागे, नविकल्पो न वा क्रिया॥६॥ योग संन्यासतस्त्यागी, योगानप्यखिलां स्त्यजेत् ॥ इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते ॥ ७ ॥