________________
उपदेशमाला
विशेषवृत्तिः
॥ ४९ ॥
एतेषामुपयोगद्वारेण किंचिद्व्याख्या - १ आर्यदेशोत्पन्नः सुखावबोधवाक्यो भवति । २ पैतृकं कुलं - विशिष्टकुलोद्भवो यथोत्क्षिसभारवहने न श्राम्यति । मातृकीजातिसुसम्पन्नो विनयान्वितो भवति । ४ रूपवानादेयवाक्यो भवति । ५ दृढसंहननो व्याख्यानतपोनुष्ठानादिषु न खेदं याति । ६ धृतियुक्तः कथंचिद्व्यसनोत्पातादौ न दैन्यवान् भवति । ७ अनाशंसी - श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति । ८ अविकत्थनो - बहुभाषी आत्मश्लाघापरो वा न भवति । ९ अमायी-न शाठयेन शिष्यान्वाहयति । १० स्थिरपरि - पाटिः- स्थिरपरिचितग्रन्थस्य सूत्रं न गलति । ११ गृहीतवाक्यः - अप्रतिघातनीयवचनो भवति । १२ जितपरिषत्-परवाद्यक्षोभ्यो भवति । १३ जितनिद्रो-अप्रमत्तत्वाद्वयाख्यादौ प्रयतते, प्रकामनिकामशायिना शिष्यान् शिक्षयति । १४ मध्यःस्थ — संवाहको भवति । १५-१६-१७ देश-काल-भावज्ञो - देशादिगुणानवबुध्य यथायोगं विहरति, हृदयंगमां च देशनां करोति । १८ आसन्नलब्धप्रतिभोजात्युत्तरादिना गृहीतो प्रत्युत्तरदानसमर्थो भवति । १९ नानाविधदेशभाषाविधिज्ञो - नानादेशजविनेयप्रत्यायनसमर्थों भवति । २० ज्ञानाचार - २१ दर्शनाचार - २२ चारित्राचार - २४ तपाचार - २४ वीर्याचार-रूपपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति । २५ सूत्रार्थोभयज्ञः-सम्यगुत्सर्गापवादप्ररूपको भवति । २६ उदाहरण - २७ हेतु-२८ कारण - २९ नयनिपुणस्तद्गम्यान् भावान् सम्यक्प्ररूपयति नाऽऽगममात्रमेव शरणीकरोति, तत्रोदाहरणानि वह्नयादिसिद्धौ महानसादयो दृष्टान्ताः, हेतवो ज्ञापका धूमवत्त्वादयः कारणान्युत्पादकानि परिणाम्यादीनि कुम्भादेर्मृत्पिण्डादिवत्, नया-नैगमादयः । ३० ग्राहणाकुशलः- शिष्यानकुशाग्रमतीनप्यनेकधा प्राह्यति । ३१ स्वसमयपरसमयवित्-सुखं परमताक्षेपद्वारेण स्वसमयं प्ररूपयति । ३२ गम्भीरो - महत्यपि कार्ये निर्वाहिते नोत्कर्षमुद्वद्दति । ३३ दीप्तिमान् दृष्टोऽपि परवादिनां क्षोभमुत्पादयति । ३४ शिवो-मारिरोगाद्युपद्रवविघातकृद्भवति । ३५ सौम्यः - प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति । ३६ इत्थम्भूत एव शेषेरपि गुणशतैः कलितः सन् प्रवचनसारमागमरहस्यं परिकथयितुं युक्तः - समर्थो भवति ॥ ११ ॥ केन कारणेन गुरोरियन्तो गुणा वीक्षणीया इत्याह
आचार्यषट्त्रिंशद्गुणाः
॥ ४९ ॥