________________
नोकषायस्वरूपम् ।
उपदेशमाला
कुच्छा चिलीणमलसंकडेसु उब्वेयो अणिटेसु । चक्खुनियत्तणमसुभेसु नत्थि दव्वेसु दंताणं ॥ ३२१ ॥
एयपि नाम नाऊण, मुज्झियव्यंति नृण जीवस्स । फेडेऊण न तीरइ, अइबलिओ कम्मसंघाओ ॥ ३२२ ॥ विशेषवृत्तौ
हे साधवो ‘णमिति प्रत्यवधारयन्त्वात्मनि रुचिर्मा मे शीतं मा मे तापो भूयादित्यात्मवल्लभता ।जा सुसाधूनां नास्तीति ॥४५९॥
सम्बन्धः। स्वशरीरप्रलोकना राड्याऽऽत्मतनुनिरीक्षणं नास्त्यत एव तपस्यरतिर्नास्ति । स्वतनुवर्णाद्युत्कर्षपरो हि न तपसि रज्यते । तथा सुस्थितोऽहमिति वर्ण-आत्मश्लाघा नास्ति । अतिप्रहर्षश्व-महत्यपि लाभादिके हर्षहेतौ नास्ति, एतानि सर्वाणि रतिविजृम्भि
तानि ॥ " उव्वेयओ" गाहा उद्वेगको मनाग्धर्मधृतेश्चलनम्। 'अरणामओ 'त्ति देश्यारणरणकः । अरमन्तिका-धर्मध्याने अरममाताणता। अरतिरसुखासिका । कलमलको-विषयलौल्यात्तदप्राप्तौ चित्तक्षोभः ॥ अत एव एनेकाग्रता च मनोव्यग्रता नास्ति सुसाधूनाम् ।
सर्वाऽपि ईदृक्प्रकारा अरतिः कार्यकारणभूता नास्त्येषामित्यर्थः ॥ “सोगं" गाहा । शोकः-स्वजनमरणादौ चित्तखेदः । सन्तापःस एवाधिकतरः। अधृतिः-क्वचित् क्षेत्रादौ तद्वियोगतात्पर्यम् । मन्युः-शोकातिरेकाच्छोतसां निरोधः । वैमनस्यम्-आत्मघातादिचि. न्तनम् । कारुदितमीषद्बुदितं । रुदितभावो महता शब्देनाक्रन्दनम् । एतानि शोकतत्कार्यरूपाणि साधुधर्मे नेच्छन्ति तीर्थकरादयः॥
" भय " गाहा । भयं-निःसत्त्वस्य चित्तवैक्लव्यम् । संक्षोभश्चौरादेवासः । विषादो-दैन्यम् । मार्गविभेदः-सिंहादिदर्शनान्मार्गत्यागः। | विभीषिका-पिशाचादिकृता । परमार्गदर्शनानि भयादन्येषां मार्गकथनानि । एतानि भयतत्कार्यरूपाणि दृढधर्माणां कुतो भवंति ॥
" कुच्छा" गाहा । कुत्सा-निन्दा चिलीनमलसंकटेषु अशुच्यादिप्रचुरेषु द्रव्येष्विति सर्वत्र सम्बध्यते । उद्वेगकोऽनिष्टेषु मलक्लिन्नस्वदेहवस्त्रादिषु चक्षुर्निवर्त्तनमशुभेषु कृमिजलील्बणश्च कलेवरादिषु नास्ति दन्तानां-वशीकृतेन्द्रियाणां साधूनाम् । कुत्सादीनां जुगुप्साप्रभवत्वात्तेषां च तद्रहितत्वात् ।। " एयंपि" गाहा एतदनन्तरोक्तकषायनोकषायविग्रहोपदेशकं वचो ज्ञात्वाऽपि 'मुज्झियवं' ति यन्मुह्यते मूढैर्भूयते, तन्नूनं निश्चितं जीवस्य स्फेटयितुं न तीर्यते न शक्यते यतोऽतीव बलिकः कर्मसंघातः। स हि ज्ञाततत्त्वमपि सत्त्वं बलादकार्ये प्रवर्त्तयतीति ॥ ३१७ तः-२२ ॥ गतं कषायद्वारमधुना गौरवद्वारं व्याचिख्यासुस्तावद्गौरववतः स्वरूपमाह
BoomenoraemoneRcom