________________
उपदेशमालाविशेषवृत्तौ
PCh
विषोपमा विषयाः।
॥४११॥
veercreezzaeroeiDOmeermedeoe
विषमिव विषं विषयाश्च तद्विषं च विषयविर्ष, विषोपमा विषया इत्यर्थः । विषशब्दोऽत्र जलार्थः। ततोऽयमर्थः विषयानुत्कटानन्यायोत्कृष्टान् जलमिवावारितप्रसरतया पिबतामुपभुञ्जानानां जीवानां विषये युक्त स्थाने विषविसूचिका-दुर्गतिपातरूपा मरणहेतु
सिकवान्तिर्भवति । अत्र दृष्टान्तः-यथा हालाहलं विशदविषं पिबतां विशदविषसत्कमजीणं जायते, मन्त्रतन्त्रादिभिरपि न जरजितुं शक्यते, वैशयं च विषस्य मारणैकात्मकत्वेन विपक्षानाक्रान्तत्वात् । अयं भावार्थः-यथा विशदविषं हालाहलं पीतं न कथंचिजीर्यत्यजीणं च मरणादिदुःखाय जायते, एवं शब्दादिविषया अप्युत्कटतया भुज्यमानाः सन्तो दुर्गतिपातरूपविषविसूचिका भवति, सा चानन्तसंसाररूपदुःखाय जायते इति ।। " एवं तु" गाहा ।। एवमनेन प्रकारेण पञ्चभिराश्रवः कम्मोपादनद्वारैरिन्द्रियैहिंसादिभिर्वा रजः-पापमादाय जीवाः संसारे तु पर्यटन्तीति सम्बन्धः। चतुर्गतिर्दू:खानां पर्यन्तस्तदनुभवरूपा सीमा यस्मिन् पर्यटने तत्तथेति क्रियाविशेषणमेतत् । एतदेवाह-“ सव्व” गाहा । सर्वगतिषु नारकादिषु प्रस्कन्दान-पर्यटनानि करिष्यन्त्यनन्तके संसारे अकृतपुण्याः सन्तो जीवाः के इत्याह-'जे' इत्यादि ॥ तदेष प्राप्तधर्माणां शैथिल्येऽपायः प्रोक्तोऽधुना तमादित एव येन प्रतिपद्यन्ते तेषां विशेषतोपायमुपदिशन्नाह-“ अणुसिट्ठा य” गाहा ।। 'अनुशिष्टा' अपि धर्माचार्यधर्मदेशनया धर्मे बहुविधं प्रेरिता अपि मिथ्यादृष्टयश्चातितरां सर्वगतिप्रस्कन्दान् करिष्यन्तीति योगः ॥ ये नराः किं विशिष्टाः बद्धनिकाचितकर्मत्वेनाऽधमाः शृण्वन्ति धर्म, न च कुर्वन्ति ॥ २१६ ॥ ये पुनः कुर्वन्ति तेषां गुणमाह-पञ्चैव हिंसादीन्युज्झित्वा पञ्चैवाहिंसादिमहाव्रतानि परिपाल्य पञ्चवेन्द्रियाणि च रक्षित्वा उच्छृखलप्रवृत्तेः सकाशाद्भावेन-परमार्थेन । कर्मत्यादिसुगमम् ॥ २१७ ।। इदं संक्षेपेण मोक्षकारणमुक्त्वा विस्तरतः प्राह-ज
नाणे दंसणचरणे, तवसंजमसमिइगुत्तिपच्छित्ते। दमउस्सग्गववाए, दव्वाइअभिग्गहे चेव ॥ २१८॥ सद्दहणायरणाए, निच्चं उज्जत एसणाइ ठिओ। तस्स भवोअहितरणं, पबजाए य ज(स)म्मं तु ॥ २१९ ॥
Hameezameezaeezzaeroewaeraaee
॥ ४११॥