________________
उपदेशमाला - विशेषवृत्तौ
॥ ३९३ ॥
की
यथा दुःखदग्धो जीवो भोगांस्त्यजति न तथा विषयसुखसागरावगाढ इत्यलीकमेतत् । यतः - चिक्कणकर्माऽवलिप्तो निविडज्ञानावरणादिकर्म्मस्थगितो जीवो न दुःखितो नापि सुखितः परित्यजति भोगानिति । अतो लघुकर्म्मताऽत्र कारणं न सुखितत्वदुःखितत्वे ।। १७२ ।। तथा च - ' जह' गाहा । संजातकर्म्मविवराः पुनर्देहमपि त्यजन्तीत्याह च - ' देहो ' गाहा । चिलातिपुत्राssख्यानकं च ' दीसंति परमघोरा वि ' इत्यत्रोक्तमेव ॥ १७३-७४ ।। एवं च सति ' पाणञ्चए वि ' गाहा । पापं पापकारणं द्रोह - प्रहाराद्यभिसन्धिलक्षणं कारणे कार्योपचारात् ॥ १७५ ॥ मा भूनिरपराधेऽपकारकारणं सापराधे न कश्चित्क्षमते इति यो मन्येत तं प्रत्याह – “ जिणपह " गाहा । मिथ्यादृशां पुरुषाधमानां प्राणापहाराय प्रहरतामप्युपरि साधवो न कुर्वन्ति च पापानि प्रतिप्रहारादीनि चशब्दात् प्रत्युत करुणादिभावानां भावयन्ति यथा - " कचित्पुमान् क्षिपति मां परिरुक्षवाक्यैः, श्रीमत्क्षमाऽऽभरणमेत्य मुदं व्रजामि । शोकं व्रजामि पुनरेवमयं तपस्वी, चारित्रतः स्खलितवानिति मन्निमित्तम् ॥ १ ॥ " सतत सुलभदैन्ये निःसुखे जीवलोके यदि मम परिवादात्प्रीतिमाप्नोति कश्चित् । परिवदतु यथेच्छं मत्समक्षं तिरो वा, जगति हि बहुदुःखे दुर्लभः प्रीतियोगः ॥ २ ॥ मन्निन्दया यदि जनः परितोषमेति, तत्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि पुरुषाः परतुष्टितो - दुःखार्जितान्यपि धनानि परित्यजन्ति || ३ || अहो नु कष्टं यदि मे तपस्विनो, रजस्तमोभ्यां विवशा विचेष्टिताः । हितेषु मूढा इति चेन्न मे कृपा, द्विषत्सु मामयथार्थवेदनम् ॥ ४ ॥ इत्यादि ॥ १७६ ।। तदेव पापस्य फलं व्यवहारतोऽमिधित्सुराह-
rand
हमारण अभक्वाणदाणपरधणविलोवणाईणं । सव्वजहनो उदओ, दसगुणिओ इकसि कयाणं ॥ तिव्वयरे उपओसे, सयगुणिओ सयसहस्सकोडिगुणो कोडाकोडिगुणो वा, हुज्ज विवागो बहुतरो वा के इत्थ करंतालंबण इमं तिहुयणस्स अच्छेरं । जह नियमा खवियगी, मरुदेवी भगवई सिद्धा ॥ किंपि कहिंप कयाई, एगे लद्धीहिं केहिऽवि निभेहिं । पत्ते अबुद्धलाभा, हवंति अच्छेरयन्भूया ॥
॥
१७७ ॥
१७८ ॥
१७९ ॥
१८० ॥
भोगत्यागे कारणं ।
॥ ३९३ ॥