________________
॥ १ ॥
॥ ॐ अर्हम् ॥
श्रीशमश्वरपार्श्वनाथाय नमः |
श्रीदेवसूरिगुरुपादुकाभ्यो नमः ।
श्रीवीरविदीक्षितधर्मदासगणिप्रवरप्रणीता
श्री रत्नप्रभरि कृत' दोघट्टी' तिविख्यात विशेषटचिसमलङ्कृता
श्रीउपदेशमाला ॥
जि
यस्यारघट्टस्य घनोपदेश- मालापितध्यानघटाघटीभिः । संसारकूपाद्भवभृज्जलाना - मूर्ध्व गतिः स्यात्सङ्गिनोऽवताद्वः ||१|| रागादिक्षपणपटुः स केवल श्रीजृम्भारिव्रजमहितो यथार्थवाक्यः ।
नायः स भवतु भूतये सदा नस्तीर्थस्याधिपतिरयं च वर्धमानः ॥ २ ॥
पाय पायं प्रवचनसुधा प्रीयते या प्रकामं, स्वैरं स्वैरं चरति कृतिनां कीर्तिवल्ली वनेषु ।
'दोघी कामाभवनवरसैः सा भृशं प्रीणयन्ती, माडगू वत्सान् जयति जगति श्रीगवी देवसरेः ॥ ३ ॥
विशुद्धसिद्धान्तधुरां दधानां संसारनिस्सारकृतावधानाम् ।
श्राद्धः सुधासिन्धुमिमां विशालां प्राप्नोति पुण्यैरुपदेशमालाम् ॥ ४ ॥
॥१॥