________________
॥ ४२ ॥
उपक्रमः।
OCIDCODeependCRECRECORDCne
सत्प्रशंशोपबृंहणपुष्पविकिरणसन्मान-सत्कारं कृतज्ञतापतयः सजनवरा प्रदास्यन्त्येवेति मे मतिः, मदीयाश्च भल्लिविनम्रताश्चिता IN वन्दनादिपरिपूता अभिनन्दनाञ्जलयश्च भावपूर्वकं समय॑माणा एव पूज्यवरेभ्यः ।
परमपूज्यगीतार्थसार्वभौमागमोद्धारकशिलाताम्रपत्रोत्कीर्णागमकारकध्यानस्थ स्वर्गताचार्य श्रीआनन्दसागरसूरीश्वराणां सुललितप्रेरणयैतादृशमहत्वपूर्णवृत्तेसम्पादनं प्रकाशनं च विहितं विधापितमिति सम्पादकानुश्रुतिमुपजीव्य सुदीर्घदर्शिप्रष्ठाणागमोद्धारकश्रीणां पुण्यना. मधेयमपि प्रस्तुतवृत्तिमहत्वविचारणात्मिकैतदुपक्रमणिकालिखनसमये स्मृत्वा प्रणिधाय च धन्यतामनुभवेऽहं ।
पङ्गोमेरुशिखराधिगतिवदशक्यप्राये एतस्मिन् प्रस्तुतवृत्तर्महत्वख्यापकोपक्रमलिखनेऽननुभूतिमूलकाऽशक्तिमताऽपि मया जिनशासनसारभूतचतुर्दशपूर्वनिस्यन्दरूप-श्रीनमस्कारमहामन्त्राराधनध्यानाहिताऽसीमसामर्थ्यवतां देवगुरूणां प्रसत्तिमधिगम्य मादृशपामरजनमपि महापुरुषगुणगानमयैतदुपक्रमलिखितरूपपुण्यकार्ये नियोजयतां सम्पादकानां पूज्यागमोद्धारकाचार्यपदृविभूषक-गच्छाधिपतिपरमशान्त मूर्ति-पठन-पाठन-स्वाध्यायसुविहितक्रियानिष्ठ-आचार्य म. श्रीमाणिक्यसागरसूरिप्रतिष्ठापिताचार्यपद-आ. श्रीहेमसागरसूरीणां मज्जीवनाखिलतन्त्रसुव्यवस्थापकोत्कृष्टशास्त्रीयविचारधारानुरूपादर्शसंयमपरिपालनोद्यततारकवर्याराध्यपादपूज्यगुरुमुनिसत्तम श्रीधर्मसागरगणिवर| श्रीणां च धर्मस्नेहपरिपूणीं भाववात्सल्यपूताश्च सत्प्रेरणां सम्प्राप्य शक्त्यनुरूपं प्रयतितं । नाऽत्र विद्वज्जनैदुष्यमर्थगहनतादिकं गवेषणीयं, कर्तव्यपरायणतामवलम्ब्यैवात्र कर्मनिर्जरोद्देशेन प्रवर्तितं मया, शक्त्यनुरूपा च भक्तिरिति प्रवादमूलाऽत्र मत्प्रवृत्तिरिति, गुणदोषविचारदक्षैः इंसदृष्टिमद्भिर्विद्वद्भिरवधारणीयम् । ____एतस्मिंश्च कार्ये साहित्यसंशोधननिष्णातप्राच्यहस्तलिखितशास्त्ररहस्योद्घाटनदक्षविद्वद्वर्यपुज्यमुनिराजश्रीपुण्यविजयजीमहाराजैः, कर्म6] अन्थादितात्विकविचारचतुरसुक्ष्मधीषणाराजितसहृदयीमुनिप्रष्ठश्रीसूर्योदयसागरजीमहाराजैः संयमज्ञानवृद्धत्वेऽपि गुणगणाहितनम्रतारा
| ॥ ४२ ॥ | जितैः विविधरूपेण संशयनिराकरणमार्मिकसंशोधनादिरूपेण सहयोगः दत्तस्तं धर्मस्नेहादृष्टिजन्यप्रसत्तिरूपेणाभारप्रदर्शनेन संस्मर्यात्मानं कृतार्थ मन्ये । एवमेव बालुभाई पंडित विविधरूपेण सामग्रीसंकलने प्रयतितं तेषां धर्मस्नेहपूर्णा प्रवृत्तेरनुमोदन-स्मरणं च क्रियते ।
CODecemocreeCee