________________
CE
उपदेशमालाविशेषवृत्तौ
CROR
धम्ममिणं जाणता, गिहिणोऽवि दढव्वया किमुअ साहू ?। कमलामेलाहरणे, सागरचंदेण इत्थुवमा ॥१२०॥
| गृहस्थानां
ज्योतिष| निमित्तमंत्र कथने साधो| स्तपःक्षयः ।
'सद्भावो'-युवतिजनस्य वसतावकाले विद्यमानता, 'विश्रम्भो'-विश्वासः। 'स्नेहो'-रागः। “रतिव्यतिकरो'-मदनोत्कोचकारिकथाप्रबन्धः। चशब्दोऽनुक्तेङ्गितादिसमुच्चयार्थों 'युवतिजने', 'स्वजनगृहसंप्रसारो'-बन्धुविषयो भवनविषयश्च तामिः सह पर्यालोच इत्यर्थः। किं 'तपःशीलवतानि' 'फोडिज्जत्ति'-विनाशयेत् । तपोऽनशनादि, शीलमुत्तरगुणाः । यदि वा हे शिष्य ! तव शीलवतानि नाशयेदिति ॥ ११४ ॥ अन्यच्च-'जोइस' गाहा 'ज्योतिषं '-ग्रहगणितम् । “निमित्तं'-होराज्ञानादि । 'अक्ष
राणि'-मातृकादीनि । 'कौतुकं'-स्नपनादि । 'आदेश'-एतदेतच्च भविष्यतीत्यादिनिर्णयकरणम् । 'भूतिकर्म'-रक्षापोट्टलिकादि । | एतैः साधोस्तपःक्षयो भवति । काभ्यां कृत्वा करणानुमोदनाभ्यां स्वयंकरणेन अन्यकृतानुमोदनेन चेत्यर्थः ॥ ११५ ॥ ज्योतिषाद्यनुष्ठानप्रसंगश्च क्रियमाणो दूरन्त इत्याह-“जह जह" गाहा 'यथा यथा क्रियते संगः '-सम्बन्धो दुरनुष्ठानरिति गम्यते ' तथा तथा प्रसरो'ऽतिप्रवृत्तिरूपः क्षणे क्षणे भवति गाढं वर्द्धत इत्यर्थः । बहुः खल्वेवं संगः स्यादल्पस्तु न दोषायेति यो मन्येत, तं प्रत्याह- स्तोको' भवति बहुः, प्रमादस्यानादिभवाभ्यस्तत्वात् । स च दुरनुष्ठानसंगवान् गुर्वादिभिर्निरूध्यमानो-वार्यमाणो न 'धृति'स्वस्थतां लभते ॥ ११६ ॥ कथं स्वल्पोऽपि संगो बहुर्भवतीत्याह-"जो चयइ" गाहा । व्यक्ता उत्तरगुणाः करणरूपाः पिण्डविशुद्ध्यादयः। मूलगुणाधरणरूपाः पञ्चमहाव्रतादयः। तदुक्तम्-वयसमणधम्मसंयम-वेयावच्चं च बंभगुत्तोओ। नाणाइतियं तवकोह-निगहाई चरणमेयं ॥ पिंडविसोही समिई, भावणपडिमा य इंदियनिरोहो। पडिलेहणगुत्तीओ, अभिग्गहा चेव करणं तु ॥ ११७ ॥ यः पुनर्न प्रमादवान् स कीदृशः स्यादित्याह-" जो निच्छएण" गाहा उत्तानार्था । नवरं यो निश्चयेन गृह्णात्यनुष्ठानमिति गम्यते । चन्द्रावतंसाख्यानकं च “सीसावेढेणे"त्यत्र प्रोक्तमेव ॥ ११८ ॥ किंच-" सीउन्ह " गाहा । शीतोष्णक्षुत्पिपासादिपरीषहं दिव्याद्युपसर्गकृतपीडारूपं क्लेशं च यः सहते तस्य धमों भवति । न च सर्वोऽपि साधुरेतानि सोढुं शक्नोति, किं
COMCreezoneRecene
॥३०९॥