SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ehDECORRECK. साधुसमागमलामे प्रभाकरकथा। | पञ्चता। एतच्चातिविरूपं स्यादमन्तोम॑त्युरस्ति यत् ॥९८॥ ध्यात्वैवं यावदद्यापि, यात्ययं नोपपार्थिवम् । तावद्वारवधूभूपं, सा प्रविश्य उपदेशमाला व्यजिज्ञपत् ॥९९॥ अपहारः कुमारस्य, कृतः केन कथं छलात् । इति चिन्ताचिताचान्तं, चित्तं मा त्वं प्रभो ! कृथाः ।।८००॥ पापीविशेषवृत्तौ| यस्या मयाऽवश्य, कुमारवधपातकम् । चक्रे केनापि कामेन, तत्प्राणान्निगृहाण मे ॥१॥ कदा कुत्र कथं चेति, यावज्जल्पति भूपतिः। जम्बूचरित्र तावन्मनोरथोऽप्येत्य, विज्ञप्तिं भूभृतेऽकरोत् ॥२॥ देव मन्मन्दिरे क्रीडन् , कुमारः सदनोपरि । प्रेर्य पुत्रेण मे भूमौ, पाति तश्च मृतश्च सः ॥ ३ ॥ भीत्या तदैव नाख्यायि, त्वदुःखाद्वच्मि साम्प्रतम् । प्राणप्रहाणदण्डं मे, मा शकिष्ठाः कुरुष्व तत् ॥४॥ ॥१८३॥ N प्राप्तः प्रभाकरोऽप्याशु, स्वागः संगृणतोस्तयोः। नृपं विज्ञपयामास, मारितस्ते मया सुतः ॥ ५॥ अभूगर्भानुभावेन, कुमारपिशिताशने । प्रियाया दोहदः सोऽपि, मया पापेन पूरितः ॥ ६॥ अनेन कर्मणा किं स्यां, वयस्यस्ते द्विजोऽथवा। निष्ठा मे भूदियं विष्ठा, रे किष्ठा मा क्षणु क्षणात(न्) ॥ ७॥ श्रेष्ठी श्रेष्ठः किमेषः स्यादालजालं जजल्प यः । आत्मन्यारोपयत्सत्यं, भ्रौणहत्यं मया कृतम् ॥ ८॥ पश्यन्नस्ति नृपो यावत् त्रयं चित्रीयितात्मना। तावत् , प्रभाकरेणोक्तमलं सन्देहदोलया ॥ ९॥ भ्रौणहत्यस्य मे हत्या, प्रायश्चित्तं न शुद्धिकृत् । राजन् यद्यप्यदो भाति(वि), तथाप्यन्यत्किमाद्रिये ॥ ८१० ॥ आगस्वानहमेवात्र, पुत्रः स्वस्थो मया कृतः। अत्रार्थे पार्थिवस्तेन, शपथैः सुस्थिरीकृतः ॥ ११ ॥ अथोवाच महीचन्द्रो, यद्यप्येवं तथापि ते । नापराधः सखे ! यस्मान्मया क्षान्तमिदं ध्रुवम् ॥ १२ ॥ "स्वामिमित्रकलत्राणां, बुद्धिबन्धुधनात्मनाम् । आपन्निकषपाषाणे, नरो जानाति सारताम् ॥१३॥" राजशब्द स एवैकः, काममिन्दुनिषेवताम् । कलङ्ककल्पमप्येणमाश्रितं न जहाति यः ॥ १३ ॥ पुनर्भूपः प्राह—यत्तदामलकं दत्तं, त्वया मे निर्जने बने । मृतस्येव तृषा मित्र !, तन्मे न खलु विस्मृतम् ॥ १५॥ स्यां तदा चेन्मृतस्तूण, च्छत्रातिच्छत्रमैत्र्यभाक् । तदा भुञ्जीत राज्यं कस्तत्तवेदं ममाखिलम् ॥ १६ ॥ प्रोक्तं प्रभाकरेणाथ, यद्येवं देव ! तत्वतः। तदा मद्भवने भोक्तुं, प्रसादः क्रियतामिति ॥ १७ ॥ पार्थिवेन तथेत्युक्ते, प्रातस्तेन पुरोधसा। आह्वायि भवने भूपः, सपौरः सपरिच्छदः ॥ १८ ॥ भोजितो भोज्यलेह्यान्नैः, सुस्वादुस्वादसुन्दरैः । रत्नसिंहासनासीनः, सत्कृतश्चन्दनादिमिः ॥ १९ ॥ सारालंकारवस्त्रायः, परिस्कृत्य प्रभाकरः। साक्षा D PremchaCRCRAChae ॥१८३॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy