________________
उपदेशमाला - विशेषवृत्तौ जम्बूचरित्रे
॥ १६३ ॥
मार्गति । पारिप्रहिकादयोऽपि यथारुचितं याचन्ते । तुरङ्गस्तु मे पञ्चाशतमेव लभते, प्रहारपार्श्वादवलम्ब को भारिकः । ततो यदि जीवन्नितो निःसरामि तदा लब्धमेव मया सर्वमिति ।
" काले कलौ राजनि चार्थलुब्धे, धनानि किं रक्षत जिवितानि । स एव लाभो ननु शौनिकेन, मुच्येत मेषो गतकर्णको यत् ॥४७०||” इति निराशीभूय निर्गतोऽसौ कृताऽन्यतो मुखद्वारां शात्रगिलिगुरोर्मठिकां गवेषयमाणोऽपि यावन्न प्राप्नोति तावन्निराशोऽध्यासीत् । सोऽयं क्षते क्षारावसेकः । मन्ये दीनार सहस्त्रस्याप्यश्वगतिरेवाभूत् । कदाचिद्विचरता चतुरेणोपलक्षितो भिक्षुवेषेण क्षुल्लकः सः । तत्पृष्ठलग्नो जगाम सावगिलिगुरुमठिकाम् । प्रणम्योपविष्टस्तत्पुरस्तात्प्रोवाच भगवन्नर्प्यतां तद्दीनारसहस्रं न्यासीकृतम् ।
सावगिलि - कस्त्वम् ? क्व कदा दीनारसहस्त्रमर्पितं, धूर्त्तः कश्चिदस्मद्वधंसनाय प्राप्नोति ।
योग० – स्वामिन् ? किमेवमुच्यते । तदा त्वद्वचनान्मठिकान्तर्मुक्तं मया तत् ।
साव० – तत्किं परस्वमङ्गुल्यप्रमात्रेणाप्यस्पृशन्तो वयं लुण्टाकाः कल्पितास्त्वया पर्याप्तं त्वदुपास्त्या । याहि यथागतमित्युत्थाय चिन्ताचक्रचटितो भ्रमन् गृहीतपुष्पचतुस्सरः प्राप्तो मकरदंष्ट्रायाः पार्श्वे, पृष्टस्तया प्रयोजनमवोचत् । तयापि जल्पितम् - अहं ते पओयणं पसाहेमि जइ लद्धस्स अद्धं देसि ।
योग॰—— सर्वनाशे समुत्पन्ने, अर्द्ध त्यजति पण्डितः ' इति मनस्याधाय प्रतिपन्नवानेतत् कथितं च तस्य तया । मइ तत्थ गयाए तए एवमेवं च कायव्वंति । तओ पत्थरभरियपेडाभारियमत्थयाहिं दसहिं दासीहिं अवरेण वि पउरेण पाइकचकाइ परिवारेण सद्धिं सुहासणासीणा धारिज्जमाणमाऊरायवत्ता पत्ता सा सावगिलिगुरुसमीवे पणमिऊण भणिउमाढत्
कलिराज्यकथा — मह धूयाए बहुमायाए चंपाए गयाए बहूणि दिणाणि जायाणि, ता मए तदाणयणाय तत्थ गंतव्वं । तओ
योगराजेन
विसंवादि राज्यस्थिति
प्रेक्षणम् ।
॥ १६३ ॥