________________
उपदेशमाला
विशेषवृत्तौ जम्बूचरित्रे
॥ १५२ ॥
ततनोरिन्दोर्ज ज्योतिषो, मुक्त्वा शम्भुशिरोनिवासमपरा का भूमिका के गुणाः । अभ्रात्किं नु पतन्ति कोऽपि गुणिनो राजप्रसादोचिता, यत्र स्वामिदृशो व (च) लन्ति धवलास्तत्रैव सर्वे गुणाः || ३४१ ।। " तद्यावन्नाद्यापि क्वापि प्रयाति तावत्प्रधानपुरुषान् प्रेष्य प्रवेश्यतां स्तम्बेरमारूढः पत्तनान्तः । ततः पार्थिवेन प्रेषितैः प्रधानपुरुषैरवार्यतूर्याडम्बरेण प्रबोधितः सिद्धदत्तः कङ्कणयालङ्कृतेन दक्षिणपाणिना पुस्तिकामादद्य वाचयति - प्राप्तव्यमित्यादि । अये ! जातोऽयं श्लोकातुपादः । अहमप्यष्टपादोऽभूवम् । इयमात्रेsपि प्रयाणे निर्व्यवसायस्याप्यनुकुलविधेमें जातब्धतुर्गुणो लाभः । यद्वा – “ व्यवसायं दधात्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन, प्रमाणं विधिरेव नः ।। ३४२ " ततो राजकुञ्जरमारोप्य प्रापितः प्रधानैः पृथ्वीपतिप्रासादमेषः । कृतपादप्रणामो मम प्रसादपात्रस्य पुरन्दश्रेष्टिश्रेष्टिन: पुत्रोऽयमिति प्रत्यभिज्ञातः पृथ्वीभुजा । अमात्यपुरोहितावपि विदितवृत्तान्तौ प्राप्तौ स्वस्वपुत्रिकावृतान्तं राज्ञे व्यजिज्ञपताम् । सर्वेऽपि पुरन्दरपुत्रजामातृप्राप्त्या पुत्रिकाचापलचेष्टितेन तुष्टाः परिणयोत्सवाय प्रोत्सहन्ते स्म । पृथ्वीपतिना रतिमञ्जरी - रत्नमञ्जरी - गुणमञ्जरीणां तिसृणामपि प्रारेभे पाणिपीडनं प्रतिपादितवांश्चष सहर्षम् । " तत्तिल्लो विहिराया, जाणेइ दूरेण जो जहिं वसइ । जं जस्स होइ जोगं, तं तस्स बिइज्जयं देइ || ३४३ ॥ " प्रदत्ता पार्थिवेन जामात्रे ग्रामपचशती, जातो महान् सामन्तः । पुरन्दरपादपर्युपास्तिपरायणः पालयामास समृद्धिः । “ पुण्यप्रकर्षनिकर्षः खलु सिद्धदत्तः, सुप्तोऽप्यसुप्तमहिमप्रथिमानमापत् । त्रस्तैकहायनकुरङ्गविलोलनेत्रे, तद्वत् भविष्यति ममापि मतार्थसिद्धिः ||४४ || तओ पउमसेणाए, जंपियं पिय ! किज्जए । पव्वज्जाउज्जमो किंतु, ऊसुगतं न जुज्जए ॥ ४५ ॥ थिराण होइ जं लच्छी, जहा सुंदरसेट्ठिणो । ऊसुगाण पुणो जाइ, हुंतीवि जह विट्टुणो ॥ ४६ ॥ गामे गुणत्थले आसि, सिट्ठी नामेण सुंदरो। सुंदरी दइया तीए, जाओ पुत्तो पुरंदरो ॥ ४७ ॥ समाणकुलसीलाण, गेहे सो परिणाविओ । गामवासंमि सव्वाणि, सुहेणच्छंति ताणि य ।। ४८ ।। दुद्धं दहि घयं (निद्धं) नव्वं, सव्वं घन्नं घरोदरे । (पाणि) घासिंघणाइ निम्मोल्लं, गामवासो अहो सुहो ॥ ४९ ॥ भत्ता जुत्ताणुरता य, एगा सिलप्पिया पिया । पुत्तो वृत्तकरो जमि, सग्गो गामो वि सो धुवं ॥ ५०॥ उक्तं चान्यत्र - " एकु वहही अरू अणुकूली एहज सग्गह मत्थइ तू (मू) ली ।
सिद्धदत्तस्य राजकन्यादि. प्राप्तिः ।
।। १५२ ।।